SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ * ૩૯૫ अनेन च सकलापि सा गाथा सूचिता भवति, तद्यथा - ' करणे भए य अन्ते सामाइअ सव्व अ वज्जे य' इत्यादि अस्यां गाथायां यद्भावकरणमुक्तं शास्त्रकृता तदिदमनन्तरोदितं सामायिकरणमित्यर्थः। ‘भदि कल्याणे सुखे चे 'त्यादि ( ३०६ - १०), ननु भदन्त इत्यखण्डे शब्दे सति कुतोऽयं प्रकृतिविभागो लभ्यते इत्याह- ' जुविशि' इत्यादि ( उ० ४१३ ), एतदुक्तं भवतिनृविशीतिधातुद्वयस्योणादौ तावदन्तप्रत्ययो दृश्यते, उणादयश्च बहुलं भवन्तीत्यत्रापि झच्प्रत्ययो 5 लभ्यते, तस्मिँश्च सति सामर्थ्यात् भदिरूपैव प्रकृतिरभ्युह्यते । 'पश्चानुपूर्व्या ग्रन्थ ' इति (३०८१०), होइ भयंतो इत्यादौ, किलैवमुपन्यासो भवति भदन्तो भवान्तो भयान्तश्चेति, अधिकारोपन्यासस्तु विपर्ययेण कृत इति पश्चानुपूर्वी कृंता । 'आवस्सयंपि निच्चं ' गाहा (३०९-३), व्याख्या– अत्र किल कल्पग्रन्थनिबद्धेयं सामाचारी - यदि लघ्वी वसतिर्भवति तदा केचित्साधवः स्थानान्तरेऽपि परिवसन्ति, किन्तु गुरोरन्तिके समागत्य प्रतिक्रमणं कृत्वा प्रादोषिककालग्रहणानन्तरं कालं 10 सूत्रार्थपौरुषीद्वयं च विधाय ततः स्थानान्तरे गत्वा निद्रामोक्षं विदधति, अथ मार्गे श्वापदादिभयं तदाऽर्थपौरुषीं हापयन्ति अथ तथापि मार्गभयादि किञ्चित् तर्हि सूत्रपौरुषीमपि त्यजन्ति ततश्चरमकायोत्सर्गं द्वितीयमाद्यं वा तावद् यावत्तिष्ठत्यपि सवितरि कारणतो वसत्यन्तरं गत्वा गुरुस्थापनादिक्रमेणान्यत्रापि स्थिताः प्रतिक्रमणादिषु यतन्ते यतोऽत्रापि भदन्त इत्यामन्त्रणं कुर्वते इति दर्शितं भवति, किं तद् इत्याह- आवश्यकं प्रतिक्रमणादिलक्षणं नित्यमेव गुरुचरणमूले 15 कर्त्तव्यमिति, कस्यैतद्दर्शितं भवतीत्याह - 'वीसुंपि हु संवसतो कारणतो 'त्ति (३०९-३), एकप्रतिश्रयनिवासिना तावद्गुर्वन्तिक एवावश्यकं कार्यं योऽपि कारणतो वसन्तिसङ्कीर्णतादेर्विष्वक्पृथग् वसति तस्याप्यनन्तरदर्शितकल्पोक्तनीत्या गुरुचरणान्तिक एवावश्यकं कर्त्तव्यतया दर्शितं भवति, ननु यः श्वापदभयात्कारणतो गुर्वन्तिकाद्रात्रौ गन्तुं न शक्नोति स किं करोतीत्याह- 'जयति सेज्जा 'त्ति, कारणात इतीहापि सम्बध्यते, ततश्च यद्यपि श्वापदभयादिकारणतो गुर्वन्तिकं गन्तुं 20 न शक्नोति तथाप्यन्यस्यामपि शय्यायां परिवसन् गुरुस्थापनादिक्रमेणैव यतते - यतनां करोतीति गाथार्थः ॥ 'सम्पूर्णशब्दावयवमेवाधिकृत्याहे 'त्यादि ( ३१० - ५ ), इह 'सामं समं चे 'त्यादि खण्डीकृतशब्दापेक्षया सामायिकमित्यखण्डः - सम्पूर्ण: शब्द उच्यते, 'करणे भए य अंते सामाइय सव्वए य वज्जे ये'त्यादिगाथैकदेशत्वादवयवः ततश्च सम्पूर्णशब्दश्चासाववयवश्च सम्पूर्णशब्दावयवस्तमधिकृत्य सामं समं सम्यक् इकं इत्येते चत्वारोऽपि शब्दा एकार्थाः, एकार्थत्वं चेह 25 न पर्यायशब्दत्वममीषां मन्तव्यं किन्त्वेकस्यैव सामायिकशब्दलक्षणस्यार्थस्य निष्पत्तये सामादयश्चत्वारोऽपि शब्दा व्याप्रियन्त इत्येकार्था उच्यन्त इति । 'ओघतो मधुरपरिणाम 'मित्यादि (३१०-११), ओघतः– सामान्येन तावन्मधुरपरिणाम - शर्करादिद्रव्यं, विशेषतस्तु कस्यचित्
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy