________________
३८४ મલધારી હેમચન્દ્રસૂરિષ્કૃત ટીપ્પણક (ભાગ-૪)
च सामायिके प्रकृतेऽपि प्रसङ्गतः सर्व्वस्यापि श्रुतस्यानुयोगद्वारादिग्रन्थदृष्टः सामाचार्यायातश्च सामान्येनोच्यते, इह सामायिकाध्ययनादिश्रुतपठनेच्छया शिष्ये समुपस्थिते गुरूः समवसरणस्थापनां विधाय वामपक्षकृतशिष्यः पूर्वाभिमुख उत्तराभिमुखो वा देवान् वन्दते ततश्च शिष्यं द्वादशावर्त्तवन्दनं दापयित्वा तेन सहैव योगोत्क्षेपनार्थं पञ्चविंशत्युच्छासमानं कायोत्सर्गं करोति, पारितकायोत्सर्ग5 श्चतुर्विंशतिस्तवं पठति, ततश्च ऊर्ध्ववस्थित एव वास्त्रयं पञ्चमङ्गलपाठपुरस्सरं "नाणं पंचविहं पन्नत्त'"मित्यादिनन्दिमुच्चारयति, तदन्ते प्रणिपत्योत्थितो ब्रूते विनेयः इच्छाकारेण अमुगं सुयं उद्दिसह, आचार्य इच्छापूर्वकमाह - उद्दिसामि खमासमणाणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं, पुनः प्रणिपत्य शिष्य आह - संदिसह किं भणामो ?, गुरुराह — ' वंदित्ता पवेयह' शिष्योऽपीच्छाम इति भणित्वा प्रणिपत्योत्थितो वक्ति-इच्छाकारेण तुब्भेहिं अमुगं सुयमुद्दिट्ठ इच्छामि अणुसट्ठि' गुरुराह— 10 जोगं करेहत्ति, तत इच्छाम इत्युक्त्वा शिष्यः प्रणिपत्यात्रान्तरे नमस्कारमुच्चारयन् गुरुं प्रदक्षिणयति, तदन्ते पुनः प्राह - तुभेहिं अमुगं सुअमुद्दि इच्छामि अणउसट्ठि, गुरुराह - जोगं करेहत्ति, तत इच्छामीत्युक्त्वा वन्दित्वा च नमस्कारपाठेन पुनर्गुरुं प्रदक्षिणयति पुनस्तेनैव क्रमेण तृतीयप्रदक्षिणापि वाच्या, ततश्च प्रदक्षिणात्रयान्ते गुरोः पुरतः शिष्योऽवतिष्ठते, गुरुश्चात्रान्तरे निषीदति, ततश्चार्द्धावनतगात्रः शिष्यो भणति - तुब्भं पवेइयं संदिसह साहूणं पवेएमि, गुरुराह - पवेयहत्ति, शिष्यस्तु इच्छाम 15 इत्युक्त्वा प्रणिपत्य चोत्थितः पञ्चनमस्कारं पठति, पुनः प्रणिपत्योत्थितो वक्ति-तुब्भं पवेइयं
साहूणं पवेइयं संदिसह करेमि काउस्सग्गं, गुरुराह - एवं करेहत्ति, ततः प्रणिप्रत्योत्थितो अमुगस्स उद्दिसावणियं करेमि काउस्सग्गं अन्नत्थ ऊससिएणमित्याद्युक्त्वा सप्तविंशत्युच्छ्वासमानं कायोत्सर्गं करोति, ततः पारितकायोत्सर्गश्चतुर्विशतिस्तवं पठति, अत्र प्रदक्षिणावन्दनकत्रयेणाप्येकमेव गण्यते, ततः सप्तभिः क्षुल्लकवन्दनकैरङ्गादिश्रुतोद्देशोऽवसितो भवति, उद्देशे च कृतेऽङ्गाद्यन्यतरश्रुतमिदं भवतो 20 वाचयामीति किल गुरुणा प्रोक्तं भवति, समुद्देशेऽपि नन्द्याकर्षणादिरहितः क्षुल्लकवन्दनकसप्तकादिस्वरूपः स एव विधिः, केवलं प्रवेदिते गुरुराह — स्थिरपरिचियं करेहत्ति, समुद्देशे च कृते विवक्षितसूत्रस्य स्थिरपरिचितत्वकरणाय किल शिष्यो नियुक्तो भवति, अनुज्ञायां तु योगोत्क्षेपकायोत्सर्गवर्जो नन्द्याकर्षणादिक उद्देशविधिरेव वक्तव्यो, नवरं प्रवेदिते गुरुराह - सम्मं धारय अन्नेसिं च पवेयसुत्ति, एवमसौ कालिक श्रुतेऽभिव्याहारः, उत्कालिकदृष्टिवादेऽपीत्थमेवाभिव्याहारः, 25 केवलं शिष्येण अमुगं सुयं उद्दिसह इत्युक्ते गुरुस्तत्रेत्थमाह — इहमुद्दिस्सामीत्यादि । 'करणे यत्ती'त्यादि (३०६-४),न केवलं करणेयत्तीत्युपन्यस्तद्वारपरामर्शः किन्तु भयेयत्तीत्ययमपीति योजना, अयमत्र भावार्थो–यदिदमनन्तरोदितं सामायिककरणं तद्भावकरणं, क्व पुनर्भावकरणं शास्त्रकारेण पूर्वमुद्दिष्टं येनेदमिह योज्यते इत्याह- " करणे य भए य" त्ति, इदं हि प्रागुपन्यस्तद्वारगाथाद्यद्वारद्वयं,