________________
परिशिष्टम् - १ * ३८५ अर्थानपेक्षककाररेफणकारस्वरूपवर्णत्रयनिष्पन्नवर्णावलीमात्रमेवाभिधीयत इत्यर्थः, यद्वा तदर्थविकले-करणशब्दाभिधेयार्थविकले जीवादौ करणमिति नाम क्रियते तन्नामकरणमुच्यते, एतस्माच्च द्विभेदादपि नामकरणात् संज्ञाकरणं भिद्यत इति दर्शयति-द्रव्यं पुनर्यत्संज्ञाकरणशब्देनाभिधित्सता पेलुकरणादि रूतपूणिकाव(दिव)लनकादीत्यर्थः, तद् द्रवणपरिणामं करणशब्दाभिधेयार्थरूपतया परिणतिस्वभावमित्यर्थः अतो न तद् द्रव्यं पेलुकरणादिकं तदर्थशून्यं-करणशब्दार्थशून्यं न वा 5 शब्दोऽर्थानपेक्षवर्णावलीमात्रलक्षणः, एवं च नामकरणभेदद्वयादपि संज्ञाकरणस्य भेदो दर्शितो भवतीति गाथार्थः, आह–ननु यदि तद्र्व्यं पेलुकरणादि करणशब्दार्थशून्यं न भवति किन्तु सान्वर्थं तर्हि भावकरणमेव तत् किमिति द्रव्यकरणाधिकारे पठ्यत इत्येतदेवाह-'जइ न तयत्थविहीण' मित्यादिगाथा (२५७-८) व्याख्या—यदि तदर्थविहीनं-करणशब्दार्थविहीनं न भवति द्रव्यं पाइल्लकादीतिशेषः 'तो'त्ति ततः किं-कस्माद्धेतोः द्रव्यकरणं तत् न तु भावकरणमिति 10 ?, एवं च परेण साक्षेपं पृष्टे सत्याहाचार्य:-'जतो'त्ति यद् –यस्मात्कारणात् तेन पाइल्लकादिना करणेन द्रव्यं-कटदिकं क्रियते तस्मात्तद्र्व्यकरणमुच्यते, एतदुक्तं भवति-द्रव्यस्य करणं द्रव्यकरणमित्येवं व्युत्पत्त्यर्थमाश्रित्य द्रव्यप्राधान्यविवक्षया तद्रव्यकरणमुक्तमिति, ननु द्रव्यं क्रियतेऽनेनेति द्रव्यकरणं तदस्तु, संज्ञाकरणं तु कया विवक्षयोच्यत इत्याह-संज्ञाकरणमिति च करणरूढित इति, एतदुक्तं भवति–तेषां हि पेलुकरणादीनां करणमिति संज्ञा क्वचिद्देशे रूढा, 15 अतस्तां रूढिमाश्रित्य संज्ञाविशिष्टं करणं संज्ञाकरणमित्युच्यत इति गाथार्थः ॥ 'पञ्चानामौदारिकादिशरीराणामाद्यं सातकरण'मित्यादि (२६२-२), ननु चात्र यदुक्तमाद्यं सङ्घातकरणमिति तत् तैजसकार्मणयोर्न घटते अनादित्वात् न ह्यौदारिकवत् तयोः सर्वथा परित्यक्तयोः पुनर्भवान्तरसंभवोऽस्ति येनाद्यपुद्गलग्रहणलक्षणं संघातकरणं स्यात्, सत्यमेतत्, किन्तु प्रवाहापेक्षया तयोरनादित्वं, इदं चोक्तं व्यक्त्यपेक्षया, तथा च सति यन्मनुष्यादिभवे समुत्पन्नमात्रस्तद्योग्यपुद्गलग्रहणं 20 करोति तत् तद्भवापेक्षयाऽऽद्यं तैजसकार्मणयोः पुद्गलसंघातकरणमुच्यते, न तु पूर्वभवसम्बन्धिशरीरं सर्वथा परित्यज्योत्तरभवशरीरं गृह्णतो य एकसामयिकपुद्गलग्रहणलक्षणः सिद्धान्तपरिभाषितः संघातः स इह गृह्यते किन्त्वाद्यपुद्गलग्रहणमात्रं, तच्च विवक्षितभवापेक्षया तयोरपि विद्यत इत्यदोषः । 'अथवेदमन्यादृक् त्रिविधं करणमिति (२६३-१), एतदुक्तं भवति-"जीवप्पओगकरणं दुविहं मूलप्पओगकरणं चे"त्यादिना तावदेकया भङ्गया दर्शितं जीवप्रयोगकरणं, इदानीं तदेव प्रकारान्तरेण 25 प्रदर्श्यत इति । 'इह च सर्बजघन्यमायुष्कं क्षुल्लकभवग्रहण'मित्यादि (२६४-१२) अत्र यदानापानकालस्य सप्तदशभाग इत्यभिहितं तत् स्थूलन्यायमाश्रित्य, सूक्ष्मेक्षिकया तु किञ्चिन्न्यूनोऽसौ द्रष्टव्यो, यत एतस्यायमानयनोपाय:-इह किलैकस्मिन् मुहूर्ते पञ्चषष्टिसहस्राणि पञ्चशतानि