SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३८४ * મલધારી હેમચન્દ્રસૂરિષ્કૃત ટીપ્પણક (ભાગ-૪) चिन्त्यते तदाऽवयवसमाधानलक्षणोऽर्थः प्राप्यते, चीयते पुद्गलैरवयवसमाधानद्वारेण निर्वत्र्त्यत इति काय इति भावः । 'जीवबद्धा जीवसम्प्रयुक्ताश्चे 'ति (२५५ - ४), तत्र बद्धा: - शिथिलबन्धनपरिणत्या सङ्गृहीतमात्राः संप्रयुक्तास्तु त एव निविडबन्धनपरिणत्या आत्मसात्कृताः, अथवा बद्धा: कायरूपतया परिणतिमात्रमानीताः संप्रयुक्तास्तु कायनिर्वर्त्यधावनवल्गनादिक्रियायां व्यापारिता उच्यन्ते इति । 5 'अक्खलियसंहियाईवक्खाणचउक्कए दरिसियंमी त्यादि (२५६ - १), ननु यद्यस्खलितसंहितादिव्याख्याचतुष्टये दर्शिते सति सूत्रस्पर्शकनिर्युक्तेरवसरस्तर्हि तस्यां चालनाप्रत्यवस्थाने एव वक्तव्ये प्राप्नुतः, शेषव्याख्याङ्गचतुष्टयस्य वृत्तिकृताऽपि दर्शितत्वात्, ततश्च यत् तस्यां 'करणे भये य अंते' इत्यादिना पददर्शनं पदार्थकथनं पदविग्रहकरणं वा किं करिष्यति ?, तत्सर्वमतिरिच्यते, अथ तस्यामुच्यते तत्सर्वं तर्हि वृत्तिकृता यत्तस्य स्वरूपमाविष्कृतं तत्कथं न निष्फलमिति, 10 सत्यमेतत्, किन्तु यद्यप्यस्यां सूत्रस्पर्शिकनिर्युक्तौ प्रायः सर्व्वाण्यपि व्याख्याङ्गानि दर्शयिष्यति तथापि नायं सर्वत्र नियमो, यतः स्थानान्तरे सूत्रस्पर्शनिर्युक्तिषु क्वचिच्चालनाप्रत्यवस्थाने एवाभिधीयेते, क्वचित्तु पदार्थमात्राद्येव किञ्चिदन्यतरव्याख्याङ्गमुच्यते, अतः सैद्धान्तिकी मुद्रेयं, यदुत - सर्वैरपि व्याख्यातृभिः व्याख्याचतुष्ट्यमभिधानीयं ततः सूत्रस्पर्शिक नियुक्तिर्व्याख्येया, यत्तु पुनरपि निर्युक्तौ क्वचित्पदार्थाद्यभिधानं तेन वृत्तिकारोक्तमेव स्पष्टीकरिष्यत इत्यदोषः । 'शलाकाशल्यकाङ्गरुहादी 'ति 15 (२५७–४), तत्र शलाका - वंशादिसम्बन्धिनी शल्यकाङ्गरुहं - सहिका (शिहिका) शूलमुच्यते । आह-' इदं नामकरणमेवे' त्यादि, (२५७-४) नामकरणमेवेदं, किं तद् ?, इत्याह- 'संज्ञाकरण 'मिति यदिहोच्यते भवद्भिः, कथमित्याह — पर्यायमात्रतः - पर्यायमात्रमाश्रित्य संज्ञाशब्दस्य नामपर्यायत्वात्, संज्ञाकरणमित्यनेन नामकरणमेवोक्तं भवतीत्यर्थः । 'संज्ञाकरणं त्वन्वर्थत' इति, क्रियतेऽनेनेति करणं, योऽयं करणशब्दस्य प्रतीयमानोऽर्थस्तमाश्रित्य संज्ञाकरणमिह गृह्यते, क्रुत एतदित्याह — 20 संज्ञायाः करणं संज्ञाकरणं, द्रव्यस्य संज्ञया निर्द्दिश्यमानत्वादिति, एतदुक्तं भवति-यदि संज्ञा चासौ करणं चेति कर्म्मधारयसमासाश्रयणात्संज्ञामात्रस्यैवाभिधानं स्यात् तदा न स्यादपि नामकरणादस्य भेदः, तच्च नास्ति, यतः संज्ञया करणमिति तृतीयातत्पुरुषाश्रयणात्संज्ञाकरणशब्देन द्रव्यं पाइल्लकाद्यभिधीयते, तच्च करणशब्दाभिधेयार्थरूपतया द्रवणपरिणामस्वरूपमित्यन्वर्थो लभ्यते एवेति, अतः स्थितमिदं– नामकरणमपि यत्सान्वर्थं तत् संज्ञाकरणमिति परिभाषितं, शेषं त्वन्वर्थशून्यं 25 नामकरणमिति, भाष्यकारेणाप्येतदेवोक्तं 'सन्ना णामंति मई 'त्यादि (२५७-७), सार्द्धगाथाव्याख्या– संज्ञाशब्देन नामैवोच्यते, ततश्च संज्ञाकरणस्य नामकरणान्न कश्चिद्भेद इति परस्य मतिः स्यादित्येवं परमतमाशङ्कयोत्तरमाह–यद्भवताऽभिहितं तन्न, संज्ञाकरणनामकरणयोरत्यन्तभेदात्, एतदेवाह — 'नामं जमभिहाणं'ति (२५७-७), यद् - यस्मात्कारणान्नाममिति - नामकरणं - अभिधानमात्रमेवोच्यते,
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy