SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ૩૭૮ જ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) 'पाओ पढमो उक्खित्तो'ति (१८२-८), प्रथमः प्रतिज्ञाश्लोक: उत्क्षिप्तश्चेतसा अन्यदा तु तमेव प्रकटं पठितवान् “कोशेन भृत्यैश्चे"त्यादि । 'इमो य उपस्पृशती'त्यादि (१८४-३), चन्द्रगुप्तः पद्मसरसि प्रवेशितः स्वयं तु चाणक्यस्तत्तीरे देवार्चनं करोति, तत्र च किल मौनेनाहं देवताम→यामीति ख्यापयन् केनचिन्नन्दपुरुषेण चन्द्रगुप्तः पृष्टः सन् शिरश्चलनसंज्ञयैव कथयत्यग्रतोऽसाविति ‘आणाए 5 वंसीहि अंबगे'त्यादि (१८७-२), इह किलैकस्मिन् ग्रामे भिक्षाटनं कुर्खता पूर्वं चाणक्येन भिक्षा न लब्धाऽऽसीद् अतः प्रत्यपकारं करोमीति क्षुद्रादेशस्तद्ग्रामेयकानां दत्तो यथा चूतान् कर्त्तयित्वा वंशजालीनां वृत्तिर्विधेया, ग्रामेयकैः पुनर्न कश्चनापि वंशानां चूतैर्वृत्तिं कारयति ततो लेखकदोषादेवायं व्यत्ययोऽभूदिति विमृश्य वंशैश्चूतानां वृत्तिः कृता, अतो मदीयं वचोऽमीभिरन्यथा कृतमिति तमेव दोषमुद्भाव्य चाणक्येन सर्वोऽपि ग्रामो दाहं प्रापित इति भावार्थः । इयंपाउयाउ'त्ति10 (१९४-६-इंदपाउ वृ०), या पूर्वमिन्द्रकुमारिका इत्युक्ताः चाणक्येन नगरात्स्वबुद्धयां निष्कासितास्ता एव नामान्तरत इन्द्रपादुका इतीहावगन्तव्या इति उक्तो बुद्धिविचारः ॥ न तु शुभस्य स्वरूपस्यैवे'ति (२००-२), एवम्भूतस्यैवाशुभरूपस्य संसारानुबन्धिनः कर्मण एव क्षयो युज्यते न तु यथा सर्वथा सन्तानोच्छेदवादिभिः सौगतैः 'दिशं न काञ्चिदि'त्यादिवचनतः शुभस्य जीवस्वरूपस्याप्यु च्छेदोऽभ्युपगम्यत इत्यत्राभिप्राय इति । ‘स हि योगनिरोधं कुर्वन् प्रथममेव'त्यादि (२०५15 ३), स हि भगवान् केवली योगत्रयनिरोधं चिकीर्षुर्विषमिव मन्त्रेण प्रथममेव तावत्तव्यापार निरुणद्धीति सम्बन्धः, तस्या-मन:पर्याप्तिनिर्वृत्तेः शरीरसव्यपेक्षंजीवस्य मनोद्रव्यग्रहणशक्तिरूपाया योऽसौ बाह्यघटादिवस्तुचिन्तनरूपो व्यापारः प्रथमं तावत् तं निरुणद्धीत्यर्थः, केन कृत्वेत्याह'अनुत्तरेणे'त्यादि (२०५-५), अनुत्तरादिविशेषणविशिष्टं किल सिद्धानामपि वीर्यं भवति तव्यवच्छेदार्थमुक्तं-करणवीर्येण-शरीरजवीर्येणेत्यर्थः, तस्या व्यापारं निरुणद्धि, या किमित्याह20 ‘याऽसौ शरीरे'-त्यादि, पुनस्तामेव विशेषयति–'यथा पूर्व'मित्यादि, किमर्थं पुनस्तव्यापारं निरुणद्धीत्याह-तस्या-मन:पर्याप्तिनिर्वृत्तेर्यत्कारणभूतं कर्म तेन जीवस्य यः संयोगस्तद्विघटनाय, न ह्यविकले तत्कारणभूते मनःपर्याप्तिनामकर्मणि तत्कार्यभूताया मनोद्रव्यग्रहणशक्तेनिरोधः शक्यः कर्तुमिति भावः । 'निरुध्य चे'ति, मनोव्यापारं उपलक्षणत्वाद्, वाक्कायच्यापारं च निरुध्य ततः शैलेशीभावनामेतीति सम्बन्धः, अथ मनोव्यापारादिनिरोधे कः क्रम इत्याह-'पज्जत्तमित्ते'त्यादि 25 (२०५-६), व्याख्या–पर्याप्तिसमर्थनोत्तरकालमेव जघन्ययोगिनः संज्ञिनो यावन्ति मनोद्रव्याणि चित्तावष्टम्भकमनोवर्गणादलिकानि तव्यापारश्च-मनोद्रव्यव्यापारश्च चिन्तनीयानुकूलचेष्टालक्षणो वा यावान् भवति केवलिनोऽपि शैलेश्यवस्थाप्राप्तिसमये तावन्ति मनोद्रव्याणि तद्व्यापारश्च तावानेव भवति, इदमुक्तं भवति-शैलेशीमारुरुक्षुः केवली प्रथममेवाचिन्त्यसामर्थ्यवीर्यविशेषाज्झगित्येव
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy