SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ-૧ भावः, एतच्चोत्तरत्र स्वयमेव 'यद्वृद्धावपि यस्येत्यादिना वक्ष्यति, निरंशसम्मिश्रसुखदुःखाख्यकारणाभ्युपगमे दूषणान्तरमाह - 'न च सर्व्वथे त्यादि ( ३६३-३), यद्यपि कस्यचिज्जीवस्य सुखदुःखाख्यं निरंशं कारणं महद् अल्पं वा कस्यचित् तथापि अस्मिन् भेदे सत्यपि कार्यस्य हेतुधर्म्मानुविधायित्वात् स्वरूपेण योऽसौ प्रमाणत इति परिमाणमाश्रित्य अल्पत्वबहुत्वलक्षणो भेदस्तं विहाय नापरो भेदः - सुखदुःखांशयोर्हीनाधिकत्वलक्षणो युज्यते, एतदुक्तं भवति - यादृशोऽखण्डस्यैव कारणस्याल्पबहुत्वलक्षणो भेदस्तादृशः कार्येऽप्यस्तु न पुनः सुखदुःखांशयोर्हीनाधिकत्वलक्षणं इति, तस्मादन्यत्सुखातिशयस्य निमित्तमित्याद्युक्ते पराभिप्रायमाशङ्कयाह - ' न च सर्व्वथे 'त्यादि ( ३६३६), सुखातिशयस्य निबन्धनं योऽंशस्तस्य वृद्धिः कर्त्री सुखातिशयाय कल्पते - सुखातिशयकारणं भवतीति न वाच्यमिति योग:, कया हेतुभूतया ? - दुःखातिशयस्य कारणं योऽशस्तस्य हान्या सर्व्वथैकस्येति-साभिप्रायिकमिदं सर्व्वथैकत्वात्तस्य, पापांशहान्या पुण्यांशे वृद्धिमुपगते सुखातिशये भवतीत्यादिकल्पना न युज्यत इति भावः कस्मादित्याह - ' भेदे' त्यादि ( ३६४ - १ ), पुण्यपापयोः कथञ्चिदभेद ' इति दर्शयति- 'यतः सातेत्यादि ( ३६४-३), शुभायुर्नामगोत्राणी 'ति शुभशब्दः प्रत्येकमपि सम्बध्यते, ततश्चायुष्कं शुभमिन्द्रादीनां, नाम तु शुभं यशःकीर्त्तितीर्थकरादेयसुभगसुस्वरादि, गोत्रं तु शुभमुच्चैर्गोत्रं, एताः कर्म्मप्रकृतयः पुण्यं, शेषास्तु मिथ्यात्वनरकगत्यादयः पापं, अत्र च सम्यक्त्वपुञ्जहास्यरतिंपुरुषवेदानां पुण्यत्वं सैद्धान्तिकमतानुसारतो द्रष्टव्यं, कार्म्मग्रन्थिकास्तु न मन्यन्ते एव, यतो मोहनीयाभेदा एते, मोहनीयं च पापमेव, यदाह - " मोहनीयं सर्व्वमशुभं " शेषं सुबोधं. नवमः समाप्तः ।। दशमः सुगम एव । एकादश आरभ्यते - 'जरामर्यं वा एतत्सर्व्वं यदग्निहोत्र' मिति (३६८-७), अस्य व्याख्या - यदेतदग्निहोत्रं बहुभिः प्रकारैर्वेदे प्रतिपाद्यते एतत्सर्व्वमपि किं ? - . अभ्युदयार्थिभिः कर्त्तव्यमिति क्रियाध्याहारः कियन्तं कालं यावदित्याह - 'जरामर्यं वे 'ति जरा च मारश्च जरामारौ तयोर्भाव इति यण् छान्दसत्वाच्च शेषस्य निपातने सति जरामर्यमिति भवति, वाशब्दं चैवकारार्थं प्रभासो मन्यते, ततश्च बालकालादारभ्य यावज्जरामरणे आगच्छतस्तावन्तमेव कालंयावज्जीवमित्यर्थः, इदं तु वक्ष्यमाणनीत्या निर्व्वाणनास्तित्वाभिधायकं तदस्तित्वाभिधायकमाह"द्वे ब्रह्मणी" इत्यादि, ब्रह्मशब्दस्तत्त्ववचनः, 'तत्र परं सत्य' मिति - निर्व्वाणं निरुपचरितत्वेन तस्यैव परमार्थतः सत्यत्वाद् अपरं तु तत्त्वज्ञानमिति, पूर्व्ववाक्याद्यथा निर्व्वाणनास्तित्वं तथा दर्शयति'अग्निहोत्रे'त्यादि (३६८- ९), भूतानि - पश्वादीनि तेषां वधस्तेन होतुः उपकारो भूतो - जातो यस्यां सा तथा यदिवा भूतवधोपकारं भूता प्राप्ता तद्भावस्तस्मात्, शबलाकारासदोषा जरामर्यवचनाच्च यावज्जीववचनाच्च सदा इयमेव कर्त्तव्येत्युक्तं, सैव तर्हि निर्व्वाणफला भविष्यतीत्याह- 'सा चे' त्यादि ( ३६८-१०). अभ्युदयः - स्वर्गः तत्फलैव, एतदुक्तं भवति - सज्ज्ञानध्यानादिकया हि 'शुद्धक्रियया निर्वाणमवाप्यते, अग्निहोत्रक्रिया तु शबलत्वात्स्वर्गफलैव, यावज्जीववचनाच्च ૩૯૫
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy