________________
૩૯૪ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૨) तथाहि-सम्भवन्त्येवं ज्ञातार इदानीमपि केचन विशिष्टगणका:-अद्यामुकग्रहो वक्रस्थ इत्यादि, नापि कालविप्रकर्षः तद्विप्रकृष्टस्यापि चन्द्रोपरागमेघवृष्ट्यादेः परिज्ञानात्, नापि स्वभावविप्रकर्षः तद्विप्रकृष्टस्य नरादिशरीरसङ्क्रान्तभूतादेविशिष्टनिमित्तबलेनाधुनिकैरपि परिज्ञानात्, तदेवं देशविप्रकर्षादिप्रतिबन्धकाभावात्तज्ज्ञातृत्वेनापि तत्त्वमस्यानिवार्यमेव, यत्तु न पश्यति अस्पष्टं वा पश्यति तज्ज्ञानावरणादिप्रतिबन्धकसद्भावात्, सज्ज्ञानध्यानादिकारणकलापात्तु तदपगमेऽनन्तानुत्तरज्ञानवान् सर्वदर्शी भवति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, शेषं सुगम, समाप्तोऽष्टम इति ॥ नवम आरभ्यते-तत्र 'स्वभावोपन्यासोऽपि तथैवे'ति (३५९-१०), स्वभावादेव नियतदेशगर्भादिग्रहणं भविष्यति किं पुण्यपापाभ्यामित्यादि, यथा द्वितीयगणधरे तथा वाच्यमिति। 'अशेषपरित्यागान्मृतिकल्पो मोक्ष इति' (३६०-६), ननु चापथ्यस्य सर्वस्य परित्यागे पथ्याहारसम्भवात्कथं तस्य मृतिर्येनोच्यते मृतिकल्पो मोक्ष इति, सत्यं, किन्तु पुण्यवत्पथ्याहारस्तस्य मूलतोऽप्यनभ्युपगत एव, यदा त्वपथ्यमपि सर्वं जहाति तदोभयाहाराभावात्कथं न तस्य मृतिरिति। 'अन्योऽन्यानुविद्धस्वरूपकल्प'मिति (३६०-६)) अन्योऽन्यसंकीर्णस्वरूपं पञ्चवर्णं यथा मेचक मण्यादिकं वस्तु तत्कल्पं-तत्सदृशमित्यर्थः । 'नारकाणामपि (च वृ०) पञ्चेन्द्रियत्वानुभवा'दिति (३६१-१), परिपूर्णपञ्चेन्द्रियत्वं हि सुखमिति भावः, 'न च तदभावो दुःखहेतु'रिति (३६२-४), तस्य-पुण्यस्याभावस्तदभावः, आह-ननु यदि सुखवदुःखमपि किञ्चिद्वास्तवं स्यात्तदा तस्य हेतुरन्विष्येत, यदा तु सुखभाव एव स्वसत्ताविकलो दुःख-सुखं 'निवृत्तं सत्तदेव दुःखमभिधीयते न पुनस्तदतिरिक्तं दुःखमस्ति यदर्थं पापलक्षणो हेतुर्मुग्यते तदा किं तद्धत्वन्वेषणेनेत्याशङ्कयाह-'न च सुखाभाव एवे'त्यादि (३६२-४), पातनायामेव व्याख्यातं, क्वचित् 'सुखभावे' त्यादिपाठः स चाशुद्ध इव लक्ष्यते, अत्र हेतुमाह-'तस्यानुभूयमानत्वादि'ति, एतदुक्तं भवति-सुखमप्यस्तीत्यनुभवादेव भवता निश्चीयते, स चानुभवो दु:खेऽप्यस्ति, न चोक्तकल्पनामात्रादनुभूयमानमपि निषेद्धं शक्यते, एवम्भूतकल्पनाया विपर्ययेणापि कर्तुं शक्यत्वात्, तस्माद्दुःखस्याप्युक्तनीत्या वास्तवत्वात्तदनुरूपेण पापलक्षणेन हेतुना भाव्यमिति, अनुमानतो दर्शयति'ततश्चेत्यादि', 'न च पुण्यलेश एवे'त्यादि (३६२-६), तस्याल्पस्यापि स्वल्पसुखनिवर्तकत्वादित्यादि पूर्वमेवोक्तमिति भावः, ननु पथ्याहारलक्षणो दृष्टान्तः पूर्वमुक्तः स कथं ज्ञेय इत्याशङ्कयाह-‘एवं दृष्टान्तोऽपी'त्यादि, स्वल्पोऽपि पथ्याहार आरोग्यतासुखहेतुरेव भवति, न ह्यणीयसोऽपि हेमपिण्डादित्या द्यु क्त्वा सोऽप्याभासनीयो दूषणीय इति भावः । 'सर्वथा सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गादि'ति (३६३-२), अयमत्र भावार्थो-यदा कारणं तुल्यसुखदुःखांशं भवति तदा कार्यपि तुल्यसुखदुःखांशमेव प्राप्नोति, न चेत्थं दृश्यते, एतदाह-'असदृशे'त्यादि, यदि पुनः कारणेऽपि सुखांशो दु:खांशो वा हीनाधिकोऽभ्युपगम्यते तदा सुखदुःखयोर्भेदः स्यादिति