SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१ श्रीमन्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिसूत्रितं, हरिभद्रीयावश्यकवृत्तिटीप्पणकम् - 'भगवतो तित्थगरस्स कन्नमूलंसि दुवे पाहाणवट्टए' इत्यादि (-१), दिक्कुमारिकाः पाषाणद्वयं गृहीत्वा तीर्थकरकर्णमूले तत्पाटवनिमित्तं वादयन्ति, वदन्ति च, किमित्याह-'भवतु' इत्यादि, पर्वतायुर्भवतु भवान्, यावती हिमवदादिपर्वतानां स्थितिस्तावती भवतोऽपि भवत्वित्यर्थः। 'एगं सिरिदामगंडं तवणिज्जुज्जले'त्यादि (९-४), एकं श्रीदामगण्डं-श्रीमद्विचित्ररत्नमालासमुदायं तीर्थकरस्योपरि. चन्द्रगोलके निक्षिपति-अवलम्बत इत्यर्थः कथम्भूतमित्याह-'तवणिज्जे'त्यादि, तापनीयः-सौवर्णः. उज्ज्वलो लम्बूसक:-कन्दुको यत्र श्रीदामगण्डे तं तथाभूतं, अग्रभागविन्यस्तसौवर्णकन्दुकं रत्नमालासमूहमुपर्यवलम्बत इत्यर्थः । तथा केषुचित्प्रदेशेषु सुवर्णप्रतरमण्डितं-हेमविच्छित्तिभिर्विभूषितं, शेषं सुगममिति । 'अज्जयमञ्जरीविव'त्ति (१०-३), अज्जको नाम वनस्पतिविशेषो यथा तस्य मञ्जरी अनेकधा स्फुटिता निर्गच्छति तथा तस्यापि शिरः स्फुटिष्यतीति भावः । तच्चाग्नावुत्पन्ने सञ्जात'मिति (२०-१४), कृष्युपकारिकुश्यादीनामग्निमन्तरेणाभावादिति भावः । सण: सप्तदशो यस्य तत्सणसप्तदशं धान्यमित्युक्तं तच्चेदं-सालि १ जव २ वीहि ३ कोद्दव ४ रालय ५ तिल ६ मुग्ग. ७ मास ८ वल्ल ९ चणा १० । तुवरि ११ मसूर १२ कुलत्था १३ गोहुम १४ निष्फाव १५ अयसि १६ सणा १७ ॥१॥' प्रथमवरवरिका समाप्ता । . द्वितीयवरवरिकायां प्रायः सुगमत्वादृत्तिकृता बढ्यो गाथा न व्याख्याताः अतस्ताः यथा वैषम्यं व्याख्यायन्ते-तत्र छद्मस्थकालोपलक्षितं यत्तपःकर्मद्वारं तद्रूपो योऽवयवस्तद्व्याख्यावसरे 'वाससहस्सं' गाहा 'तिदुएक्कग' गाहा 'तह बारस' गाहा (प०-४६) व्याख्या-प्रथमतीर्थकृतः छद्मस्थकालो वर्षसहस्रं १ तथा वक्ष्यमाणवर्षशब्दसम्बन्धाद् द्वादश वर्षाणि २ चतुर्दश वर्षाणि ३ अष्टादश वर्षाणि ४ विंशतिर्वर्षाणि ५ मासाः षट् ६ अग्रेऽपि मासशब्दसम्बन्धानव मासाः ७ त्रयो मासाः ८ चत्वारो मासाः ९ त्रयो मासाः १० द्वौ मासौ ११ एको मास: १२ द्वौ मासौ १३ । 'तिदुएक्कगसोलसगं'ति अनन्तरवक्ष्यमाणवर्षशब्दस्येह सम्बन्धात्त्रीणि वर्षाणि १४ द्वे वर्षे १५ एकं वर्ष १६ षोडश वर्षाणि १७ त्रीणि वर्षाणि १८ अहोरात्रमेकम् १९ एकादश मासाः २० नव मासाः २१ चतुःपञ्चाशद्दिनानि २२ चतुरशीतिदिनानि २३ तथेति समुच्चये द्वादश वर्षाणि २४, इह च महावीरस्य सातिरेकाणि द्वादश वर्षाणि छद्मस्थकाल: 'बारस चेव य वासा मासा * પ્રથમ અંક પાના નંબર અને બીજો અંક પંક્તિ નંબર સૂચવે છે.
SR No.005754
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages414
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy