SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ-૧ ૩૬૫ ममापि श्रुतं निर्मलं भविष्यतीति कृतबुद्धिर्वा श्रुतं वाचयेदित्यर्थः । 'दव्वे नियमा भावो गाहा (२६४(७), व्याख्या -' द्रव्ये' इति द्रव्यविषयेऽनुयोगे नियमाद्भावो निश्चयेन भावानुयोगोऽस्ति, तदव्याख्याने द्रव्यस्य व्याख्यातुमशक्यत्वादिति, ‘न विणा ते यावि खेत्तकालेहिं 'ति तावपि - द्रव्यभावानुयोगौ क्षेत्रकालानुयोगाभ्यां विना न भवतः, तद्विशिष्टत्वात्तयो:, तथाहि - पर्यायाधारं द्रव्यं व्याख्यानयन्नवश्यमेव क्वचिदवगाढं व्याचष्टे स्थितिमच्चेति तथा क्षेत्रानुयोगे क्रियमाणे त्रयाणामपि द्रव्यकालभावानुयोगानां भजना-कदाचित्सन्ति कदाचिन्नेति, अलोकलक्षणे हि क्षेत्रे विचार्यमाणए तत्र परमाण्वादिद्रव्यस्याभावादाकाशद्रव्यस्य च क्षेत्रद्वारेणैव गृहीतत्वाद्द्रव्यानुयोगाभाव:, समयादिरूपकालस्य च तत्राभावात्कालानुयोगाभावः, अगुरुलघ्वादिक्षेत्रपर्यायाणाम-विवक्षितत्वात्क्षेत्रग्रहणेनैव च तेषां गृहीतत्वाद्भावानुयोगाभावोऽपि भावनीय इत्यलोकक्षेत्रे त्रयोऽप्यनुयोगा न विद्यन्ते, लोके तु समयक्षेत्रादौ सन्तीति भजना । तथा त्रिष्वपि - द्रव्यक्षेत्रभावेषु कालानुयोगो भजनीयः, समयादिलक्षणो हि कालः समयक्षेत्रान्तर्वर्त्तिद्रव्यादिष्वस्ति बहिर्वर्त्तिषु तु नास्तीति भजना, ननु यद्येवं 'न विणा ते यावि खेत्तकालेहिं' इत्यत्र कालमन्तरेण द्रव्यभावौ न भवत इति यदुक्तं तद्विरुध्यते. समयक्षेत्राद्बहिस्तमन्तरेणापि तयोः सुलभत्वात्, सत्यं, किन्तु पूर्वं वर्त्तनारूपस्यैव कालस्य विवक्षितत्वात्तस्य सर्व्वव्यापित्वाद्, अत्र तु समयक्षेत्रनियतसमयादिरूपस्यैव कालस्य विवक्षितत्वाददोषो, विशेषार्थिना तु भाष्यविवरणमन्वेषणीयमिति गाथार्थः || 'अत्थाणत्थनिउत्ता' गाहा (२९१-७), अस्थाने-अनौचित्येनार्थेषुप्रयोजनेष्वर्थान्-सूत्रार्थरूपान्नियुंक्ते अस्थानार्थनियोक्ता गुरुर्न भवतीति योगो, विधिना प्रतिपादिते वा अर्थे गुरुभिव्विपरीतार्थनियोक्ता शिव्यो न भवति, केव केषां ? - विपरीतनियोक्त्री आभरणानां जीर्ण श्रेष्ठिदुहितेवेति गाथार्थ: । ' अंबत्तणेण जीहाऍ' गाहा (३००-३), इह किल हंसस्य जिह्वा अम्ला भवति, ततश्चासौ यदा दुग्धमिश्रोदकमध्ये चञ्चपुटं क्षिपति तदा तज्जिह्वाया अम्लत्वगुणेन दुग्धे वित्रुडिते 'कूइया होति'त्ति दुग्धवराटिका भवन्तीत्यर्थः, ततो हंसो जलं मुक्त्वा वराटिकाभिः स्थितं दुग्धमापिबति एवं सुशिष्योऽपि दोषान्मुक्त्वा गुणान् गृह्णातीति गाथार्थ: । ' एवं सामायिकमर्थरूपं रूढितो नपुंसक' मिति (३१४ - १ ), समतालक्षणो · ह्यर्थः किल पुंल्लिङ्गः, स च रूढिवशाल्लोके नपुंसकत्वेन प्रतीत इति समतालक्षणमर्थरूपं निर्द्देश्यमाश्रित्य ९. यद्यपि पूज्यैरेव स्वयं विशेषावश्यकं विवृण्वद्भिरेषा गाथाऽनुयोगविषयाणां द्रव्यादीनां परस्परसमावेशार्थकतया पश्चाद् व्याख्याता अत्र चानुयोगसमावेशकतया, तथाऽपि न कथञ्चनापि हार्दमुद्भावितं नीयते तत एवमुक्तौ न काञ्चिद्धानि पश्यामः यदुत द्रव्यस्य गुणपर्यायवत्त्वात् केवलस्य द्रव्यस्याभावात् यदा यदा द्रव्यानुयोगः क्रियते तदाऽवश्यं भावानुयोगः कर्त्तव्यतामापनीपद्यते एव, तथा च द्रव्यानुयोगे क्रियमाणे नियमत एव भावानुयोगस्य कृति:, तथा भावो न द्रव्याश्रयमन्तरा द्रव्यं च न क्षेत्रमाधारमवस्थितिलक्षणं च कालं व्यतिरिच्येति द्रव्ये भावे च व्याख्यायमाने अवश्यमेव तद्व्याख्यासंपूर्णतायै क्षेत्रकालव्याख्यानकृतिरिति न तौ क्षेत्रकालाभ्यां विना व्याख्येयाविति न क्षेत्रकालाभ्यां विना द्रव्यभावयोर्व्याख्यानं, यदा च आधारभूतमाकाशरूपं केवलं क्षेत्रं व्याख्यायते तदा आधेयतद्गुणादिस्थितिरूपाणां द्रव्यादीनां व्याख्यानं नातीवोपयुक्तं न चाविनाभूतमिति भजना, तथा वर्तनारूपे काले स्वतन्त्रतया व्याख्यायमाने न द्रव्यभावक्षेत्रानुयोगानामुपयुक्ततेति 'काले भयणाए तीसुंपि' द्रव्याद्यनुयोगविषयिण्या सत्तेतररूपभजनया कालानुयोगः स्यादिति ।
SR No.005753
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages390
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy