________________
3६४ * भारी उभयन्द्र सूरित टी५५15 (भाग-१) तत्र नाभेरधस्तादूर्ध्वं च सर्वत्र शास्त्रोक्तसमस्तशरीरलक्षणाविसंवादित्वात्समचतुरस्रं तुल्यमुच्यते, तद्धि किलैवं व्युत्पाद्यते-समाः-शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत्समचतुरस्रं, 'सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपंदाजपदप्रोष्ठपदादि' (पा-५-४-१२०) त्यकार: समासान्तः, अस्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवाः, ततश्च सर्वे ऽप्यवयवाः शरीरलक्षणोक्तप्रमाणाविसंवादिनो यस्य न न्यूनाधिकप्रमाणा इति तत्तुल्यं भवत्येव १, तथा न्यग्रोधवत्परिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णावयवो भवति अधस्तु न तथा, तथेदमप्यत एवाह-'वित्थडबहुलं'ति, नाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभाक् अधस्तु हीनाधिकप्रमाणमिति भावः २, तृतीयं सादि कथम्भूतं भवतीत्याह-'उस्सेहबहुं'ति, उत्सेधशब्देन नाभेरधस्तनदेहभागो गृह्यते, उत्सेधेन बहुपरिपूर्ण नाभेरधस्तनदेहभागे शरीरलक्षणोक्तप्रमाणभाग् भवतीत्यर्थः, अत एव तत्सादीत्यभिधीयते, सह आदिनाउत्सेधाख्यनाभेरधस्तनकायेन वर्त्तत इति सादि, सर्वमेव हि शरीरमभिहितस्वरूपेणादिना सह वर्तत एवेति विशेषणान्यथानुपपत्तेरादिरिह वैशिष्ट्योपेतो लभ्यते ३, वामनं तु मडभकोष्ठं, अत्र किल पाणिपादशिरोग्रीवं शरीरलक्षणोक्तप्रमाणयुक्तं भवति, शेषं तु हृदयोदरपृष्ठरूपं कोष्ठं हीनाधिक-प्रमाणत्वान्मडभमितिकृत्वा मडभकोष्ठमिदमुच्यते ४, कुब्जं त्वधस्तनकायमडभं, अधस्तनकायशब्देन चेह करचरणोरुग्रीवाशिरःप्रभृतयोऽवयवा गृह्यन्ते, 'उस्सेहमहोकाओ करचरणाई य हिट्ठिल्लो' इतिवचनात्, ते चात्र मडभाःहीनाधिकप्रमाणोपेता यथोक्तलक्षणविसंवादिनो भवन्तीत्यधस्तनकायमडभमिदमुच्यते, कोष्ठस्यात्र विशिष्टप्रमाणलक्षणोपेतत्वादिति ५, 'हुण्डं तु सर्वत्रासंस्थितं' सर्वशरीरावयवानां प्रायस्तत्र यथोक्तप्रमाणलक्षणविसंवादित्वादिति गाथार्थः । वचनानुयोगं व्याख्यानयता यदुक्तं षोडशानां वे'ति (२६३४), तत्रायमर्थः-एकवचनादिस्वरूपाविर्भावकं व्याख्यानं वचनानुयोगोऽभिधीयते, षोडशवचनस्वरूपाविर्भावकं वा, कानि पुनस्तानि षोडश वचनानीति चेद्, उच्यते, 'लिंगतियं वयणतियं कालतियं तह परोक्खपच्चक्खं । उवणयवणयचउद्धा अब्भत्थं होइ सोलसमं ॥१॥ व्याख्या-इयं स्त्री अयं पुरुषः इदं कलमिति त्रीणि लिङ्गप्रधानानि वचनानि-लिङ्गवचनानि. एको द्वौ बहव इत्येकत्वाद्य-भिधायकशब्दसन्दर्भो वचनत्रिकं. अकरोत्करोति करिष्यतीत्यतीतादिकालनिर्देशप्रधानं वचनं 'कालतियंति कालत्रिकवचनमित्यर्थः, तथा स इति परोक्षनिर्देश: परोक्षवचनं, अयमिति प्रत्यक्षनिर्देशः प्रत्यक्षवचनं, उपनयापनयवचनं तु चतुर्की भवति, तद्यथा-रूपवती स्त्री सुशीला चेति उपनयनोपनयवचनं, रूपवती स्त्री परं कुशीलेत्युपनयापनयवचनं, कुरुपा परं सुशीलेत्यपनयोपनयवचनं, कुरूपा कुशीला चेत्यपनयापनयवचनं, यत्रान्यच्चेतसि निधाय विप्रतारकबुद्ध्याऽन्यन्न वक्ति, किन्तु तद्यथा विवक्षितं तत्तथैव मनःशुद्ध्या न्बवीति तत् षोडशमध्यात्मवचनमित्येतेषां षोडशानां वचनविशेषाणां स्वरूपाविर्भावकं व्याख्यानं वचनानुयोग इति गाथार्थः । 'पंचहिं ठाणेहिं सुयं वाइज्जे'त्यादि (२६४-१), यद्याचार्यः शिष्यान् श्रुतं न ग्राहयति तदा तं परित्यज्य श्रुतार्थिनस्तेऽन्यत्र गच्छेयुरिति कथं नु नाम मयैते शिष्याः सङ्ग्रहीता भविष्यन्तीति बुद्ध्या श्रुतं वाचयति, उपग्रहार्थं वा-तेषामेव शिष्याणामनुग्रहार्थमित्यर्थः स्वकर्मनिर्जरणार्थं च, तथा श्रुतपर्यवजातेन हेतुभूतेन वाचयेत् शिष्यान्, श्रुतं वाचयतः श्रुतपर्यवजातं-श्रुतपर्यायराशिर्मम वृद्धिं यास्यति, शिष्यान् वाचयतो