________________
३१
तुलनात्मकटीप्पणी
परिशिष्ट-५
यथा पशुभूताकाशादिः जातिप्रवृत्तिनिमित्तिका नैमित्तिकी, यथा पृथिवीजलादिः । तत्रेयं शब्दसंज्ञा त्रयाणां पारिभाषिकी, “ तिन्हं सद्दणयाणं जाणए अणुवउत्ते अवत्थू" इत्यादौ लाघवार्थं त्रयाणां शब्दनामकरणात्, अन्यथा त्रयाणामिति विरुध्येत । व्यक्तिपक्षे आनन्त्याज्जातिपक्षे च जातित्रयवत्स्वेकजातिशब्दासमावेशात्, न हि घटपटतटास्त्रयो घटा इति केनापि वक्तुं शक्यम् । तस्माच्छब्दस्य ये भेदा अभिहितास्ते नयभेदा एव, नयत्वसाक्षाद्व्याप्यजात्यवच्छिन्नत्वात् । नैगमस्य च यौ भेदावभिहितौ तौ नयप्रभेदौ, नयत्वव्याप्यजातिव्याप्यजात्यवच्छिन्नत्वादिति स्मर्तव्यम् । अत एवासंकीर्णजातिपुरस्कारेण नयप्रमाणे सप्तैव नया अनुयोगद्वारेऽप्युक्ताः । तथा च तत्सूत्र- " से किं तं नयप्पमाणे ? नयप्पमाणे सत्तविहे पण्णत्ते । तंजा - गमे, संग, ववहारे, उज्जुसुए, सद्दे, समभिरूढे, एवंभूएत्ति सत्त मूलणया पण्णत्ता” इत्यादि । स्थानाङ्गेऽपीत्थमेवोक्तम् । न च पारमर्षप्रसिद्धं विभागक्रममुल्लङ्घ्यान्यथा विभजन्ते आम्नायविद इति । शब्दं त्रिभेदमाचक्षाणानां वाचकचक्रवर्तिनामपि सप्तधा नयविभाग एव चेतःस्वरसः, पञ्चेत्युक्तिस्तु परिभाषाप्रयुक्ताऽऽदेशान्तरेणेति सुदृढमवधेयम् । एतेन नव नया द्रव्यार्थिकः पर्यायार्थिको नैगमः संग्रहश्चेत्यादि विभागो जैनाभासस्य दिक्पटदेशीयस्य देवसेनस्य निरस्तो द्रष्टव्यः, भेदप्रभेदानां सहोक्तौ विभागवाक्यव्याघातात्, न हि भवति मूर्तामूर्तपृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांस्येकादश द्रव्याणीति विभजतो वैशेषिकबालस्य चर्तुदशभूतग्रामे त्रसेतरभेदद्वयं प्रक्षिप्य षोडशधा विभजतो वाऽऽर्हतबालस्य नोपहास इति । न च जीवाजीवादितत्त्वविभागवदुपपत्तिः तत्र द्रव्यपर्यायगतजातिभेदेन विभाजकोपाधीनां मिथोऽसांकर्यात्, अत्र च सप्तानामप्युपाधीनां द्वयोः सांकर्यात्, किं च सप्ततत्त्वविभागे प्रयोजनभेद उक्त एव, नवनयविभागे च न कश्चित्प्रयोजनभेदः । किं तु तीर्थंकरवचनसंग्रहविशेषण (विशेष) प्रयोजनाभ्यामादितो द्वयोरेव निरूपणं विधेयम् । तद्भेदजिज्ञासायां च सप्त निरूपणीया इति विभक्तविभागोऽयमेकप्रघट्टेन । नवानां मौलभेदानामभिधानं तु बालिशविलसितम् । ( श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.३१९-३२२) (पृ.२८५ }
38. यत्तु “तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः । । १ । ।” इति पठित्वाऽब्राह्मणः अपापं अनधः अनुदरा कन्या, अपशवो वाऽन्ये गोअश्वेभ्यः अधर्म इत्युदाहरन्ति । तदार्थिकार्थमभिप्रेत्य । ( श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ. ३७७) (पृ.३२० }
39. तथा चोक्तमाचाराङ्गवृत्तौ “सर्वनिकृष्टो जीवस्य दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदाऽपर्याप्तानां स च भवति विज्ञेयः । । १ । । तस्मात्प्रभृतिज्ञानविवृद्धिर्दृष्टा जिनेन जीवानां । लब्धिनिमित्तकैः करणैः कायेन्द्रियवाङ्मनोदृग्भिः । । २ । ।” इति । “ मग्गणगुणठाणेहि य चउदसहि हवंति तह असुद्धणया । विण्णेया संसारी सव्वे सुद्धा हु सुद्धणया” इति बृहद्रव्यसंग्रहसत्केयं सम्पूर्णा गाथा । अस्याश्चायम्भावार्थः-सर्वे संसारिजीवा अशुद्धनयात् अशुद्धनयापेक्षया चतुर्दशमार्गणास्थानैश्चतुर्दशगुणस्थानैश्च चतुर्दशप्रकारा भवन्ति सम्भवन्तीति विज्ञेया ज्ञातव्याः । चतुर्दशमार्गणास्थान चतुर्दशगुणस्थानसहिता भवन्तीति यावत्, तएव सर्वे संसारिणः शुद्धनयात् शुद्धनिश्चयनयात् शुद्धनिश्चयनयापेक्षया शुद्धाः सहजशुद्धबुद्धैकस्वभावाः शुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन सुद्धनिश्चयात्मकेन मार्गणास्थानगुणस्थानरहिता जीवा इति यावत्, ( श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ. ३९० ) ( पृ.३२८}