________________
२५
तुलनात्मकटीप्पणी
तत्पदवाच्यत्वोपमितावेवोपक्षय इति तु लिङ्गनिश्रतस्थलेऽपि शक्यं वक्तुम्, तत्राप्येतल्लिङ्गवानेतत्पदवाच्यं इत्याभिप्रायिकोपदेशस्य कल्पयितुं शक्यत्वादित्युद्भाव्यते तदा निश्राऽस्ति जनकत्वेन यत्र न निश्रित इति व्युत्पत्तेर्निश्रापदेन च लिङ्गोपदेशयोर्द्वयोरपि संग्रहान्न दोषः । अतस्मिंस्तद्ग्रहो निश्रित इतरोऽनिश्रित इत्यपरे । यद्भाप्यसुधांभोनिधिः- 'निस्सिए विसेसो वा परधम्मेहिं विमिस्सं णिस्सिअमविणिस्सिअं इयरं ।' निश्रिते विशेषो वा वक्तव्यः । परधर्मैरश्वादिवस्तुधर्मैर्निश्रितं युक्तं गवादिवस्तु गृह्णतो निश्रितं भवति । गव्यश्वादिधीर्निश्रितमित्यर्थः । इतरद्गवि गोज्ञानमनिश्रितमित्यर्थः । ( श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ. २३३ ) {पृ.२०२}
25. “ईसरियरूव-रूव-सिरि- जस-धम्म- पयत्ता भगाभिक्खा । ते तेसिमसामण्णा संति जओ तेण भगवंत । । १०४८ । । " इति महाभाष्यमनुसृत्य भगवच्छव्दार्थमाह-ऐश्वर्यादिमद्भिरिति प्राकृतपुरुषातिशायिपारमार्थिकैश्वर्यादिपड्धर्मसमन्वितौरित्यर्थः । नातो मायाविषु भगवत्त्वप्रसङ्ग इति । ऐश्वर्यादिमान् वौद्धमतानुयायिभिरपि सुगतदेवोऽभ्युपगतः, न च स जगदन्तर्गतनिखिलद्रव्यनिखिलपर्यायज्ञस्तैरभ्युपगतः किन्त्विप्टतत्त्वज्ञ एव, यदुक्तं- “सर्वं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते ? ।।१ । । तस्मादनुष्ठानगतं, ज्ञानमस्य विचार्यताम् । प्रमाणं दूरदर्शी चे-देते गृध्रानुपास्महे ।।२ । ।” इति तन्मतस्य, “हेयोपादेयतत्त्वस्य साध्योपायस्य वेदकः । यः प्रमाणमसाविष्टो, न तु सर्वस्य वेदकः । 19 ।। ” इति कैश्चिदभ्युपगतस्य मतस्य च “ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम् ।।१।।” इत्याद्युक्तेरनादिसिद्धैश्वर्यादिसमन्वितपरमपुरुषप्रतिपादनपरनयवादस्य च कुमारिलभट्टादिभिर्मीमांसकैस्सर्वज्ञ एव नैवाभ्युपगत इति तन्मतस्य च यैश्चैकान्तवादिभिर्वैशेषिकनैयायिकसाङ्खयवेदान्तादिभिर्यथाक्रमं सप्तषोडशपञ्चविंशतिब्रह्मतत्त्वादिकमेकान्तस्वरूपतया जानन् प्रतिपादयंश्च सर्वज्ञोऽभ्युपगतस्तन्मतस्य च निरासार्थमुपात्तविशेषणस्य सर्वज्ञैरित्यस्यार्थमाह- सर्वद्रव्यपर्यायान् जानन्ति विशेषतस्तैरिति । ( श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ. २४७ ) (पृ.२२०} 26. उक्तञ्च विशेषावश्यके- “तित्थयरो किं कारणं, भासइ सामाइयं तु अज्झयणं ? । तित्थयरणामगोत्तं,
कम्मं मे वेइयव्वंति।।२१२२ ।। तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ, तइय भवोसक्कइत्ता णं । । २१२३ ।। ” इति । ( श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ. २४९) (पृ.२२२}
परिशिष्ट-५
27. પ્રશ્ન :- તત્ત્વાર્થ ભાષ્યમાં સામાયિક આદિ છ આવશ્યક સૂત્રો, દશવૈકાલિક, ઉત્તરાધ્યયન વગેરે શ્રુત અંગબાહ્ય છે, અને જેની રચના ગણધર પછીના આચાર્યોએ કરી હોય તે અંગબાહ્ય છે, એમ જણાવ્યું છે. આનાથી સમાયિક આદિ છ આવશ્યક સૂત્રોના કર્તા ગણધર ભગવંતો નહિ, કિંતુ ગણધર પછીના આચાર્ય ભગવંતો છે એમ સિદ્ધ થાય છે, આ સમજણ બરોબર છે ?
ઉત્તર :- ના, કારણ કે પ.પૂ.વાચકવર્ય શ્રી ઉમાસ્વાતિ મહારાજથી પણ પ્રાચીન ચૌદ પૂર્વધર શ્રી ભદ્રબાહુ સ્વામી વિરચિત આવશ્યક નિર્યુક્તિ આદિ અનેક પ્રમાણભૂત ગ્રંથોના આધારે છ આવશ્યક સૂત્રોના કર્તા શ્રી ગણધર ભગવંતો છે એમ સિદ્ધ થાય છે. આથી ઉક્ત ભાષ્યનો અર્થ