________________
परिशिष्ट - ५.
तुलनात्मकटीप्पणी
२४
ग्राह्यगृहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वाद्धूमादग्निज्ञानवत्, विपक्षेऽवध्यादीति कृतं प्रसंगेन ।। (श्री हारिभद्रीय- टीका पृ.६०) (पृ. १७१}
21. आहितप्रधानकारणस्य स्वतन्त्रस्य कर्तुरनेककारकशक्तिप्रयुक्तस्य साधकतमत्वविवक्षावशादवच्छेदिका शक्तिरर्थस्य करणव्यपदेशमश्नुत इति टीकाकृतः । एवं सति लब्धीन्द्रियं प्रमाणं स्यात्, तच्चायुक्तं, शक्तिरूपस्य तस्य कार्यार्थापत्त्यैव गम्यत्वेन 'स्वपरव्यवसायि ज्ञानं प्रमाणम्' इत्यस्य भङ्गापत्तेः द्रव्यार्थप्रत्यक्षतायाश्चतिप्रसञ्जकत्वात् तस्मादुपयोगेन्द्रियमेव प्रदीप इव प्रकाशस्य स्वाभिन्नप्रमायाः करणमेष्टव्यमिति देवसूरिप्रभृतयः । प्रमाणशब्दः सम्यग्ज्ञाने रूढ एव फलं तु यथासम्भवं दोषनिवृत्तिः केवलं तु स्वयं फलमेवेति तु युक्तम् । ( श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.२०१२०२) {पृ.१७४}
22. एते शब्दाः प्रकृत्या भेदेऽपि सति रूढिवलान्नार्थान्तरम्, मतिज्ञानार्थ एवेत्यर्थः । यथा 'इन्दतीति इन्द्रः, शक्नोतीति शक्रः पुरं दारयतीति पुरन्दरः' इत्यादीन्दनादिक्रियाभेदेऽपि शचीपतिरेवोच्यते तथा समभिरूढनयापेक्षया, अर्थान्तरे सत्यपि मतिर्मतिज्ञानमेवोच्यते मतिज्ञानावरणक्षयोपशमे अन्तरङ्गनिमित्ते सति जनितोपयोगविषयत्वात् । एतेषां मतिज्ञानभेदानां श्रुतादिष्वप्रवृत्तिर्वर्तते । मतिज्ञानावरणक्षयोपशमनिमित्तोपयोगं नातिक्रामन्ति । मतिस्मृतिसंज्ञाचिन्ताऽभिनिबोधादिभिर्योऽर्थोऽभिधीयते स एक एवेत्यर्थः । तथापि भेद उच्यते । बहिरङ्गमन्तरङ्गञ्चार्थ परिस्फुटं य आत्मा मन्यते सा अवग्रहेहाऽवायधारणात्मिका मतिरुच्यते । स्वसंवेदनमिन्द्रियज्ञानञ्च सांव्यवहारिकं प्रत्यक्षम् । 'तत्' इति अतीतार्थग्राहिणी प्रतीतिः स्मृतिरुच्यते । तदेवेदं तत्सदृशञ्च इति प्रत्यभिज्ञानं संज्ञा कथ्यते । यथा अग्निं विना धूमो न स्यात् तथा आत्मानं विना शरीरव्यापारवचनादिकं न स्यादिति वितर्कणमूहनं चिन्ता अभिधीयते । धूमादिर्दशनादग्न्यादिप्रतीतिरनुमानमभिनिबोध अभिधीयते । इतिशब्दात् प्रतिभाबुद्धिमेधाप्रभृतयो मतिज्ञानप्रकारा वेदितव्याः । रात्रौ दिवा वाऽकस्माबाह्यकारणं विना 'व्युप्टे ममप्टे समेष्यति' इत्येवंरूपं यद्विज्ञानमुत्पद्यते सा प्रतिभा अभिधीयते । अर्थग्रहणशक्तिर्बुद्धिः कथ्यते । पाठग्रहणशक्तिर्मेधा अभिधीयते । उक्तञ्च - “ मतिरागमिका ज्ञेया बुद्धिस्तत्कालदर्शिनी । प्रज्ञा चातीतकालज्ञा मेधा कालयत्रयात्मिका" ।। (तत्त्वार्थश्रुतसागरीयटीका पृ. ६१ ) (पृ. १८३}
23. किमयं मृणालीस्पर्श उताहो सर्पस्पर्श इत्याकारेति टीकाकृतः । सा च व्यवहारिकावग्रहजन्या द्रष्टव्या । नैश्चयिकावग्रहजन्या तु किमयं स्पर्श उतास्पर्श इत्येवंरूपा विशेषावश्यक प्रसिद्धा समुन्नेया । जिज्ञासारूपत्वादेवास्या न संशयरूपत्वम् । ( श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ. २२२) {पृ.१९३}
24. अत्र स्थले उक्तमवगृह्णाति अनुक्तमगृह्णातीति विकल्पौ कैश्चिदुक्तौ तौ चोक्तानुक्तत्वयोः शब्दधर्मत्वेन श्रोत्रावग्रहविषयावेव न सर्वव्यापिनाविति त्यक्तौ । यदि च रूपविशेषवान्मणिः पद्मराग इत्युपदेशसहकृतचक्षुरादिजन्योऽयं पद्मराग इत्याद्यवग्रहे उक्तत्वमन्यत्र चानुक्तत्वम् उक्तोपदेशस्य