________________
परिशिष्ट-५ .
तुलनात्मकटीप्पणी
२२
10B. निकाचना -तु स्पृष्टतानन्तरभाविनी बद्धस्य कर्मणः सकलकरणायोग्यतावस्था। स्पृष्टता तु निकाचनाभेद
एवेति पृथग् नोक्तेति टीकाकृतः। बद्धं नाम कर्मात्मप्रदेशैः सह श्लिष्टं, यथा सूचयः कलापीकृताः परस्परेण बद्धाः कथ्यन्ते । ता एवाग्नौ प्रक्षिप्तास्ताडिताः समभिव्यज्यमानान्तराः स्पृष्टा इति व्यपदिश्यन्ते, ता एव पुनः प्रताप्य यदा घनेन ताडिताः प्रणष्टस्वविभागा एकपिण्डतामितास्तदा निकाचिता इति
व्यपदेशमश्नुवते। (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.११६-११७) {पृ.६७} 11. कथं पुनस्तत्फलं बन्धाद्यपेक्षत इति चेत्, उच्यते, यतो बन्धादिष्वसत्सु न तत्सम्भव इति टीकाकृतः ।
बन्धनिकाचनयोरुदयद्वारा फलनिष्पत्तौ, निर्जरायास्तु धाराऽविच्छेदेन तत्परिपुष्टौ हेतुतेत्यपि सम्यगाभाति ।
(श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.११७) (पृ.६८} 12. ज्ञानदर्शनोपयोगस्वभाव्यादेव तानि तान्यनिर्दिष्टस्वरूपाणि परिणामेनाध्यवसायस्थानान्तराणि- परिणामाध्यवसायस्थानान्तराणि,
परिणामेन न निरन्वयोच्छित्त्या, निरवन्योच्छित्तौ हि कार्यभावे तत्त्वोऽसत् सद्भवति, न च सर्वथा असतः शक्तिप्रतिनियमः, ततः कार्यान्तरवत्तदभावप्रसङ्ग इति भावनीयं, अध्यवसायस्थानान्तराणि चानुकम्पादिगर्भाणि
मलीमसमध्यमतीव्राणि पारम्पर्येण सद्दर्शनबीजभूतानि बोधरूपाणि गृह्यन्ते, (श्री हारिभद्रीयटीका पृ.२४) {पृ.६९} 13. अत्राहेत्यादि- नन्वयुक्तोऽयं प्रश्नः। तत्त्वादीनि जीवादीनि वक्ष्यन्त इति भाष्य एवोक्तत्वात्, न, ततः
स्वरूपज्ञानेऽपीयत्ताया अज्ञानादिति टीकाकृतः। एवं सति कतिविधं तत्त्वानिति प्रष्टव्यं स्यात्, इति चेत्, अत्रेदमाभाति, विभागजिज्ञासाया फलीभूतविभागज्ञानविषयोद्देश्यस्यापि प्रष्टव्यत्वादित्थमुक्तिः । किमे(मै)व च(कः) किं कतिविधं वेत्यनयोर्लाभो बुद्धिस्थत्वात् ।। (श्री महोपाध्याय यशोविजयजीकृत
तत्त्वार्थ विवरण पृ.१२१) {पृ.७६} 14. परोपदेशात् परोपदेशमाश्रित्य, विशिष्टबाह्यनिमित्तोपलक्षणमेवैतत्, तथाभव्यत्वादिभावतः बाह्यनिमित्तप्रधान्यात् अन्यदपि . . प्रतिमादि बाह्यं निमित्तमाश्रित्य तत्त्वार्थश्रद्धानं भवति अपूर्वकरणादिक्रमेण, वैद्योपदेशक्रियानुष्ठानादोगोपशान्तिवद्,
अधिगम- सम्यग्दर्शनमिति निगमनमेतत्, इह च परानपेक्षत्वात् कथंचिनिसर्गे सत्यधिगमोपपत्तेः, अन्यथा कथं तदभावान्निसर्ग- सम्यगदर्शनानन्तरमधिगमसम्यग्दर्शनोपन्यास इति ?, आह- सर्वसत्त्वानामनादित्वात् कर्मसंयोगस्य किमिति कालभेदेन सम्यग्दर्शनलाभः, तथा च केषांचिदयमनादिमान् केषांचिदद्य केषांचिदनन्तेन कालेनेति, अत्रोच्यते, सम्यग्दर्शनलाभो हि विशिष्टकालस्वभावनियतिकर्मपुरुषकारसामग्रीजन्यः, सा च प्रतिसत्त्वं भिन्नेति, ततश्च यस्य यो विपाककालस्तथाभव्यत्वनियति-कर्मकालपुरुषापेक्षस्तस्य तदा भवतीति न कश्चिद्दोषः, सर्वकार्याणामेव सामग्रीजन्यत्वाभ्युपगमात्, उक्तं च यथावस्थितार्हन्मतवेदिना सिद्धसेनदिवाकरेण - “कालो सहाव णिअई पुव्वक्कयं पुरिसकारऽणेगंता । मिच्छत्तं ते चेव उ समासओ होंति सम्मतं ।।१।।" इत्यलं प्रसङ्गेन, अक्षरगमनिकामात्रस्य
प्रस्तुतत्वादिति ।। (श्री हारिभद्रीयटीका पृ.२६) {पृ.७६} 15. . “अनिष्टं चैतदिति, चशब्द: एवकारार्थः, अनिष्टमेवैतत्, एवं ह्यजीवस्य जीवभावे जीवस्याप्यजीवभाव इति सिद्धान्तविरोधः,
आह-एवमपि विरोध एव, यत उक्तं- “ जत्थ उ जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थवि अ ण