________________
तुलनात्मकटीप्पणी
परिशिष्ट-५
न परमार्थतोऽप्रतिपन्नजिनवचनानां अनुकम्पादयः, प्रशमादिक्रमोपन्यासस्तु यथाप्राधान्यमिति । अत्राह-जिनवचनानभिज्ञानां माषतुषादीनां कथं यथोदितं तत्त्वार्थश्रद्धानमनाभोगप्रधानत्वादिति, अत्रोच्यते, अस्त्यनाभोगो ज्ञानावरणोदयजन्यः, क्षयोपशमात्तु दर्शनविपरीतरुचिनिबन्धनस्य मिथ्यात्वमोहनीयस्य तदभावाद्यत्रावगमः तत्राविपरातैव श्रद्धा, इतरत्राप्यप्रतिहता तच्छक्तिर्यथाऽनाबाधं तथैव प्रवृत्तेरित्यत एव मार्गदेशनानुसारिणोऽसद्ग्रहरहितोश्च सम्यग्दृष्टयो भवन्तीत्यभिदधति विद्वांस इत्यलं प्रसङ्गेन.(श्री हारिभद्रीयटीका पृ.२०) {पृ.५१} तथा च जैनप्रवचनानुसारिप्रशमादीनामेव लिङ्गत्वेनाश्रयणादविदितपरमार्थानां मिथ्याशास्त्रवासनोपनीतमोहगर्भवैराग्यवतां मिथ्यादृष्टीनां प्रशमादिभिर्न व्यभिचार इति टीकाकृतः। तथापि निसर्गसम्यग्दृष्टौ श्रेणिकादौ चैतल्लक्षणागतेरनन्तानुबन्ध्यादिक्षयोपशमादिजनिता एव प्रशमादयो लिङ्गत्वेन ग्राह्या इत्याचार्याः, तदुक्तं विंशिकायाम्- “पढमाणुदयाभावो, एयस्स जओ भवे कसायाणं। ता कह एसो एवं, भण्णइ तव्विसयवेक्खाए त्ति ।।१ ।।” प्रथमकषायोदयाभावमात्रात्कथमुपशमादिलिङ्गानि सम्यग्दृष्टेः प्रादुःष्यन्तीति पूर्वपक्षः। अनन्तानुबन्ध्यादिविषयापेक्षा एवोपशमादयस्तल्लिङ्गानि, न तु चारित्रपरिपाकजनितेच्छाप्रवृत्तिस्थरसिद्धियोगानुभावा अनुकम्पानिर्वेदसंवेगप्रशमा इति नानुपपत्तिरिति सिद्धान्ताशयः ।। (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.९७-९८) {पृ.५३} अथ कर्मोदयादेव कर्मबन्धः, कर्मबन्धाच्च तदुदय इत्यन्योऽन्याश्रय इति चेत्, न, बीजाङ्कुरन्यायेनादोषत्वात् । इदानीन्तनकर्मबन्धे कर्मोदयपूर्वकत्वदर्शनेऽपि सर्वत्र कथं तनिश्चयः इति चेत् । सर्वं कर्म कर्मोदयाद् बध्यते, कर्मत्वात्, इदानीन्तनकर्मवदित्यनुमानादित्यवेहि। (श्री महोपाध्याय यशोविजयजीकृत तत्त्वार्थ विवरण पृ.११६) {पृ.६४} अनेनैतदाह-आत्मा ह्यन्यकर्मोदयनिमित्तापेक्षयैवान्यत् कर्मान्तरं करोति, न तु यथा अन्ये मन्यन्ते- आदिकर्म स्वभावत एव, ततोऽन्या कर्मसन्ततिः स्वकृतेति, कुत: ?, सिद्धानामपि कर्मकरणप्रसङ्गात्, स्वभावाविशेषादित्येवं, कर्मत एवेति सफलमवधारणं, आदिकर्म न विद्यत एवानादित्वात् कर्मण इत्यर्थः, आह-सर्वं कर्म कृतं तत् कथमनादि मतम् ?, उच्यते, प्रवाहरूपेणातीतकालवत्, तथाहि- यावान् कालोऽतीतस्तेन सर्वेण वर्तमानत्वं प्राप्तम्, अन्यथाऽतीतत्वाभावात्, यथोक्तम्- “भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम् ।।१।।" अथ चासावनादिः, एवं कर्मापि, वर्तमानताकल्पत्वात् कृतकत्वस्येत्यलं प्रसङ्गेन, “स्वकृतस्ये ति चानेन कर्मसापेक्षस्यात्मन एव कर्तृत्वमाह, कथमयं स्वतन्त्रः सन्नात्मन एवाहिते प्रवर्तत इति चेत् ?, उच्यते, कर्ममोहितत्वात् व्याधिमोहितवदपथ्य इति, कर्ममोहितः कथमेकान्तेन स्वतन्त्र इति चेत्, नायं दोषः, अनभ्युपगमात्, कर्मसापेक्ष एवायं कर्तेत्युक्तं, न केवलसिद्धस्य, अनभ्युपगमात्, (श्री हारिभद्रीयटीका
पृ.२३) {पृ.६५} 10A. अयं च त्रिविधोऽपि बन्धः सूचीकलापोपमानाद् भावनीयः, तद्यथा- गुणोऽऽवेष्टितसूचीकलापोपमं
बद्धमुच्यते, लोहपट्टबद्धसूचीसंघातसदृशं तु बद्धस्पृष्टमित्यभिधीयते, बद्धस्पृष्टनिकाचितं त्वग्नितप्तघनाहतिक्रोडीकृतसूचिनिचयसन्निभं भावनीयमिति ।? (विशेषावश्यकभाष्य गा- टीका) (पृ.६७} ।