________________
॥ चतुर्थः पाठः॥
- बुद्धिर्यस्य बलं तस्य । - पुरा किल दुन्तिो नाम कश्चिदेकः सिंहः कस्मिश्चिदेकस्मिन् वनेऽवसत् । स नित्यमनेकपशूनां वधमकरोत् । एवं तु सर्वेषामस्माकं नाशः अल्पकालेनैव भवितेति विचार्य सर्वे पशवस्तमुपगम्य अकथयन् । रे सिंह, यदि प्रसन्नो भवान् इयमेका नः प्रार्थना स्वीक्रियताम् । वयमेव एकं पशुं भवदाहारार्थ नित्यं प्रेषयिष्यामः । इति । तदा सिंहेनोक्तम् । यद्येतदभिमतं भवतां, भवतु तहिं तत् । इति । ततः प्रभृति प्रतिदिनमेकः, पशुः प्रेष्यते सिंहेन च स
WW
LS.
4.
।
.
-
Ank
S
/
भक्ष्यते । गच्छति काले कस्यनिदेकस्य वृद्धशशकस्य वारः समायातः। स तु परमवतुर आसीत् । ततः मन्दं मन्दं सिंहमुपगम्य अकथयत् । क्षम्यतां मे आगमनविलम्बः । मार्गे केचिदपरेण सिंहेनाहं बलाद् गृहीतः । तस्याग्रे पुनरागच्छामीति शपथं कृत्वा भवते निवेदयितुमहमागतः । इति। एतच्छ्रुत्वा क्रुद्धः स सिंहोऽवदत । क स दुष्टात्मा । इति । ततः शशकः तं सिंदमेकगभीरकूपसमीपमनयत् । तस्य जले च तस्यैव सिंहस्य प्रतिबिम्बमदर्शयत्। बुद्धिहीनः सिंहस्तु तमपरं सिहं मत्वा तस्योपर्यपतन्मृतश्च । अत एवोकम्-बुद्धिर्यस्य बलं तस्येति ॥
૧. સોગન ખાઈને