SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ "સ્મૃતમ પદેશિકા I मस्ति ब्रह्मारण्ये कर्पूरतिलको नाम हस्ती । तमवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म, यद्ययं केनाप्युपायेन म्रियते तदास्माकमेन देहेन मासचतुष्टयस्य भोजनं भविष्यति । तत्रैकेन वृद्धगृगालेन प्रतिज्ञातं मया बुद्धिप्रभावादस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा साष्टाङ्गपातं प्रणम्यावददेव दृष्टिप्रसादं कुरु । हस्ती ब्रूते करत्वं कुतः समायातः । सोऽवदजम्बूकोऽहं सर्वैर्वनवासिभिः पशुभिर्मिलित्वा भवत्सकाशं प्रस्थापितो, यद्विना राशाऽवस्थातुं न युक्तं तदत्राटवी राज्येऽभिषेक्तुं भवान्सर्वस्वामिगुणोपेतो निरूपितस्तद्यथा लग्नवेला न विचलति तथा कृत्वा सत्वरमागम्यतां देवेन । इत्युक्त्वोत्थाय चलितः । ततोऽसौ राज्यलोभाकृष्टः कर्पूरतिलकः शृगालवर्त्मना धावन् महापङ्के निमग्नः । ततस्तेन हस्तिनोक्तं सखे शृगाल, किमधुना विधेयं, पङ्के निप तितोsहं म्रिये, परावृत्य पश्य शृंगालेन विस्वोक्तं देव मम पुच्छकावलम्बनं कृत्वोत्तिष्ठ यन्मद्वयसि त्वया प्रत्ययः कृतस्तदनुभूयतामशरणं दुःखम् । ५४३२ 110
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy