________________
પાઠ ૩રમો
[सुभाषित संहा] विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति । न च तारागणोऽपि च ॥ * एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना।
वासितं तद्वनं सर्व सुपुत्रेण कुलं यथा ॥ उत्सवे व्यसने चैव दुर्भिक्षे शत्रुविग्रहे। राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ दुर्जनः प्रियवादी व नैतत् विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे हृदये तु हलाहलम् ॥ दुर्जनः परिहर्तव्यो विद्ययालङ्कतोपि सन् । मणना भूषितः सर्पः किमसौ न भयंकरः ।। कुलीनैः सह संपर्कः पण्डितैः सह मित्रताम् । शातिभिश्च समं मेलं कुर्वाणो न विनश्यति ॥ यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ पादपानां भयं वातः पनानां शिशिरो भयम् । पर्वतानां भयं वज्रः साधूनां दुर्जनो भयम् ॥ तस्मात्स्वविषये रक्षा कर्तव्या भूतिमिच्छता। यसै वाप्यते स्वर्गौ रक्षणात्प्राप्यते यथा ॥ यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ + हन् १. २, ५२भै. पशु-तरित... 3 . मे * एक सर्वनाम, तेनां सर्व २i ३५ याय छे. x . ८ ना मात्मन, वित...प्र.से..