SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ભાવ ભાવના પ્રકરણ ભાગ- ૨ ૨૭૭. एवमेकैकदत्तिवृद्ध्या तावद् नेयं यावदष्टमेऽष्टके प्रतिदिनमष्टो दत्तयो गृह्यन्ते, अत्र स्थापना- [चार र्तृतीया नवनवमिका, नव नवका विधीयते, एकाशीतिदिनानीत्यर्थः, अत्रापि प्रथमनवके प्रतिदिवसमेकैका दत्तिः, एकैकवृद्ध्या च नवमनवके प्रतिदिनं नव दत्तयः, स्थापना- चतुर्थी RRRRRRRRR दशदशमिका, दश दशकान् यावत् क्रियते, शतं दिनानामित्यर्थः, अत्रापि प्रथमदशके प्रतिदिनमेका दत्तिस्ततश्चैकैकदत्तिवृद्या दशमदशके प्रतिदिनं दश दश दत्तयः । स्थापना- [२०|१०|२०|२०|१०|१०|१०|२०|२०|२०| नवभिर्मासैश्चतुविंशतिभिर्दिनैश्चतस्रोऽप्येता प्रतिमाः समर्थ्यन्ते । अथ चान्द्रायणं तपः प्रतिपाद्यते, अत्र च भिक्षादत्तिभिः कवलैर्वा यवमध्या वज्रमध्या चेति द्वे प्रतिमे भवतः, तत्र च यवमध्ये शुक्लपक्षप्रतिपदि एका भिक्षादत्तिः कवलो वा एकोऽभिगृह्यते, द्वितीयायां द्वे, तृतीयायां तिस्रः, एवमेकोत्तरवृद्ध्या यावत् पौर्णमास्यां पंचदश, कृष्क्षपक्षप्रतिपदि च पंचदश दत्तयः कवला वा गृह्यन्ते, द्वितीयायां चतुर्दश इत्येवं यावदमावास्यायामेका दत्तिः कवलो व एको गृह्यते इति, मासेनैषा समर्थ्यते । वज्रमध्या तु कृष्णपक्षप्रतिपदि प्रारभ्यते, प्रथमदिने च पञ्चदश दत्तयः कवला वा गृह्यन्ते, तत एकैकहान्या तावन्नीयते यावदमावास्यायां शुक्लपक्षप्रतिपदि चैका दत्तिः कवलो वा एको गृह्यते, ततो द्वितीयाया आरभ्य एकोत्तरवृद्धया तावनीयते यावत् पौर्णमास्यां पंचदश दत्तयः कवला वा गृह्यन्त इति, मासेनैषाऽपि समाप्यत इति ।। अथ सर्वांगसुंदरं तपः प्रतिपाद्यते, सर्वांगानि सुंदराणि-सौन्दर्योपेतानि भवन्ति यस्मात्तपोविशेषात् असौ सर्वांगसुन्दरः तपोविशेषः, स इदानीं प्रतिपाद्यते, तद्यथा-सव्वंगसुंदरतवो कायव्वं होइ सुद्धपक्खम्मि । एत्थ य अट्ठववासा एगंतरिया विहेयव्वा ।।१।। आयंबिलेण विहिणा कायव्वं एत्थ होइ पारणयं । खंतीइ मद्दवाईणऽभिग्गहो एत्थ कायव्वो ।।२।। अवरद्धे वि न कजा कोवाई तह करेज सत्तीए । पूर्व जिणाण दाणं च देज जइकिविणमाईणं ।।३॥ अस्य च तपसः सर्वांगसुन्दरत्वमानुषंगिकमेव फलं, मुख्यं तु सर्वज्ञाज्ञया क्रियमाणानां सर्वेषामेव तपसां मोक्षावापितरेव फलमिति भावनीयम, एवमुत्तरत्रापि । रुजानां-रोगाणामभाव निरुजं तदेव प्रधानफलविवक्षया शिखेव शिखा-चूला यत्रासौ निरुजशिखः तपोविशेषः, सोऽधुनाऽभिधीयते, तद्यथा-आयामपारणेणं निरुजसिहम्मी करेज तह चेव अट्ठववासे नवरं कायव्वा कसिणपक्खम्मि ।।१।। पत्थाईहिं गिलाणो पडियरिब्बो मए त्ति घेत्तव्यो । इह निच्छओऽववसेसं पूयादाणाइ तह चेव ।।२।। परभूषणतपः परमाणि शक्रचक्रवादियोग्यानि प्रकृष्टानि हारकेयूरकंकणादीनि भूषणानि यस्मादसौ परमभूषणः, स चेत्थमवसेयः-इह परमभूसणतवे कायव्वाइं हवंति सव्वाइं । बत्तीस अंबिलाई एगंतरियाई विहिपुव्वं ।।१।। दायव्वाइं इह भूसणाई जिणचेइयाण सत्तीए । जिणपूयादाणाई एत्थवि तह चेव सत्तीए ।।२।। . अथ कल्पवृक्ष इव कल्पवृक्षः, सौभाग्यफलप्रदाने कल्पवृक्षः सौभाग्यकल्पवृक्ष; स चैत्थमवसेयःसोहग्गकप्परुक्खो कायव्वो होइ चेत्तमासम्मि । उववासेहिं एगंतरेहिं मासं समग्गं पि ।।१।। पयादाणाइविही तह चेव समथिए य एयम्मि सोवनरुप्पमइओ अहवाऽवि हु तंदुलाइमओ ।।२।। फलभरविणमंतविचित्तसाहपरिडिओ मणभिरामो । काउण कप्परुक्खो दायव्वो चेइयहरम्मि ।।३।। इन्द्रियविजयतप :- इंदियविजओ य तवो तत्थ य पढमेंदियं समासज । पुरिमड्डेक्कासणनिविगइय आयाम उववासा ।।१।। बीयाइइंदिएसु वि पत्तेयं एवमेव तो एयं । पणवीसवासरेहिं समप्पए पंचहिं लयाहिं ।।२।।
SR No.005722
Book TitleBhavbhavna Prakaran Part 02
Original Sutra AuthorN/A
AuthorSumtishekharvijay
PublisherArihant Aradhak Trust
Publication Year
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy