SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ભવ ભાવના પ્રકરણ ભાગ- ૨ ૨૭૫ शशाशशर २२२२ |२२२२२२ शशशशशश अथवा अन्यथा पदकं स्थाप्यते ।। २ ।ततः षोडशोपवासान् कृत्वा पारयति, ततः २२२२२२२ पंचदश, ततश्चतुर्दश, एन- २२२ | मेकैकहान्या तावन्नेयं यावदेकमुपवासं कृत्वा २२२२२२२ पारयति, एषा कनकावलीसम्बधिनी | २२२२२ द्वितीया लता भवति, इयं च पदकस्योपरिष्टात् २२२२२२२ "प्रथम- लता प्रतिलोमा ऊर्ध्वं विरच्यते, | २२२२२ तद्यथाषोडश पंचदश चतुर्दश एवं यावदेक उपवासः, एवं च सति एषा प्रथमलतासदृशी द्वितीयपक्षे | २२२२ लता सिद्धा भवति । ततश्चाष्टो षष्टानि करोति, एतैरप्येतल्लतोपरि द्वितीयं दाडिमकं निष्पद्यते ।। २२ । ततोऽष्टमं षष्ठं चतुर्थं करोति (ग्रं० १२०००) तैद्वितीया काहलिका निष्पद्यते । एवं च सत्युपरिकाहलिकाद्वययुक्ता दाडिमकयुगान्विता लताद्वयसम्पन्ना तदधस्तानिबद्धपदका च कनकावली सिद्धा भवति । अस्मिंश्च कनकावलीतपसि सर्वाण्यपि चत्वारि चतुर्थानि भवंति, चतुष्पंचाशत् षष्ठानि, चत्वार्यष्टमानि, द्वे दशमे, द्वे द्वादशे, द्वे चतुर्दशे, वे षोडशे, वे अष्टादशे, द्वे विंशतितमे, द्वे द्वाविंशतितमे, वे चतुर्विंशतितमे, द्वे षड्विंशतितमे, वे अष्टाविंशतितमे, द्वे त्रिंशत्तमे, द्वे द्वात्रिंशत्तमे वे चतुस्त्रिंशत्तमे इति; एवं च सर्वेकत्वे वर्षमेकं चतुर्विशतिश्च तपोदिनानि भवंति, अष्टाशीतिश्च पारणकदिनानि, उभयमीलनेन वर्षेणैकेन त्रिभिर्मासैविंशत्या च दिनैरियं समर्थ्यते । अस्यां च कनकावल्यां सर्वकामिताहारेण पारणकं भवति, निर्विकृतिकेन वा अलेपद्रव्यैर्वा आचाम्बलेन वा इत्येवं पारणकभेदादियं चतुर्द्धा भवति । ततः पंचभिर्वर्षः मासद्वयेनाष्टाविंशत्या च दिवसेञ्चतुर्विधाऽपीयं समाप्यत इति ।। रत्वावल्यप्येवमेव द्रष्टव्या, केवलं दाडिमद्वये पदके च षष्टस्थानेऽष्टमानि वाच्यानि, शेषं सर्वं तथैवेति ।। अथ मुक्तावलीतपो भण्यते-अत्राऽऽदौ चतुर्थ, ततो द्वावुपवासो ततः पुनरपि चतुर्थं, ततस्रय उपवासाः, ततः पुनरपि चतुर्थं चत्वार उपवासाः, एवं चतुर्थान्तरितमेकोतरवृद्ध्या नेयं, चतुर्थं पंचोपवासाः, चतुर्थं षट्, चतुर्थं सप्त, चतुर्थमष्टी चतुर्थं नव चतुर्थं दश चतुर्थमेकादश चतुर्थं द्वादश चतुर्थं त्रयोदश चतुर्थं चतुर्दश चतुर्थं पंचदश चतुर्थं षोडशोपवासाः, एवमधू मुक्तावल्या निष्पन्नं, द्वितीयमप्यर्द्धमेवमेव द्रष्टव्यं, केवलमत्र प्रतिलोमगत्या उपवासान् करोति, तद्यथा-षोडशोपवासान् कृत्वा पर्यंत चतुर्थं करोति, अत्र स्थापना इह तपोदिनानां शतत्रयं भवति, षष्टिस्तु पारणकदिवसाः, उभयमीलनेन वर्षेणैका समतिक्रामति । पारणकभेदाशातुर्विध्यं कनकावलीवदत्रापि द्रष्टव्यमिति ।। अथ सिंहविक्रीडितं तपः प्रोच्यते-एतच लघुबृहभेदाद् द्विविधं, तत्र लघुसिंहविक्रीडितमित्थमवगन्तव्यं, तद्यथा-एक्को दो एकोऽवि य उववासा तिनि दोनि चउरो य । तिनि य पंच च चउरो छ पंच सत्तेव व उववासा ।।१।। छ सेव अट्ठ सत्त य नवउववासेहिं होइ पढमलया । अट्ठ नव सत्त अट्ठ य छ सत्त पण छच्च चउरो य ।।२।। पण तिन्नि चउर दोनि य तिनेगो दोनि एग उववासा । पढमलया विवरीया अट्टहिया होइ बीयलया ।।३।। चउपन्नसयं च तवोदिणाणि इह पारणाई तेत्तीसं । छहिं मासेहिं सत्तहिं दिणेहिं वनइ समग्गमिणं ।।४।। पारणकभेदाश्चातुर्विध्यमत्रापि द्रष्टव्यमिति । अथ बृहत्सिंहविक्रीडितमुच्यतेएक्को दो एक्को चिय, तिनि दुवे चउर तिन्नि पण चउरो । छ शेव पंच सत्त य, छ अट्ठ सत्तेव नव अट्ठ ।।१।। दस नव एकारस दस, दुवालसेक्कारसेव । बारस चउदस तेरस, पनरस चउदस य सोलसगं ।।२।। इय पढमलयं काउं, तत्तो पन्नरस कुणइ उववासे । पढमलयं चिय तत्तो, विवरीयं सोलसाईयं ।।३।।
SR No.005722
Book TitleBhavbhavna Prakaran Part 02
Original Sutra AuthorN/A
AuthorSumtishekharvijay
PublisherArihant Aradhak Trust
Publication Year
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy