________________
... स्यारी ......... ___ अत एवाह स्तुतिकारः – 'न संविदद्वैतपथेऽर्थसंवित्' इति । सम्यगवैपरीत्येन विद्यतेऽवगम्यते वस्तुस्वरूपमनयेति REA संवित् । स्वसंवेदनपक्षे तुसंवेदन=संवित्-ज्ञानम्, तस्या अद्वैतम्, द्वयोर्भावो, द्विता, द्वितैव द्वैतं, प्रज्ञादित्वात् स्वार्थिकेऽणि।
न द्वैतमद्वैतम्; बाह्यार्थप्रतिक्षेपादेकत्वं । संविदद्वैतं ज्ञानमेवैकं तात्त्विकं न बाह्योऽर्थ इत्यभ्युपगम्यत इत्यर्थः । तस्य । पन्थाः=मार्गः संविदद्वैतपथस्तस्मिन् ज्ञानाद्वैतवादपक्ष इति यावत् । किमित्याह । नार्थसंवित् । येयं बहिर्मुखतयार्थप्रतीतिः | साक्षादनुभूयते सा न घटते इत्युपस्कारः । एतच्चानन्तरमेव भावितम् ॥ ___एवं च स्थिते सति किमित्याह । विलूनशीण सुगतेन्द्रजालम् इति । सुगतो मायापुत्रः। तस्य सम्बन्धि तेन परिकल्पितं क्षणक्षयादि वस्तुजातम् । इन्द्रजालमिवेन्द्रजालं, मतिव्यामोहविधातृत्वात् । सुगतेन्द्रजालं सर्वमिदं विलूनशीर्णम् । पूर्वं विलूनं पश्चात् शीर्णं विलूनशीर्णम् । यथा किञ्चित् तृणस्तम्भादि विलूनमेव शोर्यते } विनश्यति, एवं तत्कल्पितमिदमिन्द्रजालं तृणप्रायं धारालयुक्तिशस्त्रिकया छिन्नं सद्विशीर्यत इति । अथवा यथा निपुणेन्द्रजालिककल्पितमिन्द्रजालमवास्तवतत्तद्वस्त्वद्भुततोपदर्शनेन तथाविधं बुद्धिदुर्विदग्धं जनं . विप्रतार्य पश्चादिन्द्रधनुरिव निरवयवं विलूनशीर्णतां कलयति, तथा सुगतपरिकल्पितं तत्तत्प्रमाणतत्तत्फलाभेदक्षणक्षयज्ञानार्थ हेतुकत्वज्ञानाद्वैताभ्युपगमादि सर्वं प्रमाणानभिज्ञं लोकं व्यामोहयमानमपि युक्त्या विचार्यमाणं । विशरास्तामेव सेवत इति । अत्र च सुगतशब्द उपहासार्थः । सौगता हि शोभनं गतं ज्ञानमस्येति सुगतं इत्युशन्ति ।। ततश्चाहो तस्य शोभनज्ञानता, येनेत्थमयुक्तियुक्तमुक्तम् ॥ इति काव्यार्थः ॥१६ ॥ A 64ससूय: छ. जौनो सुत' २०६नी व्युत्पत्ति शोमन (९६२) नाणो' मेवी ७२.छ. ખરેખર! તેનું જ્ઞાન સુંદર છે કે જેનાથી તે આ પ્રમાણે અયુક્તિથી યુક્ત વચનો કહે છે. !! (કટાક્ષમાં) u ૧૬ા
१. प्रज्ञादिभ्योऽण् । हैमसूत्रे ७-२-१६५ । २. तीक्ष्णधारयुक्तशस्त्रिका । ३. विशीर्णशीलतां ।
आय-१६
218