________________
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्ति: ।
२/४]
प्रसाङ्क्षीदित्यतः कृतम् । अस्य चाधुवत्वात् "ऋहीघ्राधात्रोन्दनुदविन्तेर्वा" ॥४॥२॥७६॥ इत्यत्र भौवादिकस्येव आदादिकस्यापि ऋधातोर्ग्रहः ॥ ३ ॥
प्राकरणिकाप्राकणिकयोः प्राकरणिकस्यैव ॥ ४ ॥
प्रकरणेनार्थात् स्वाधिकारेण चरतीति वाक्ये "चरति" ॥६|४|११ ॥ इत्यनेनेकणि प्राकरणिकं स्वाधिकारोक्तं प्रत्ययादि; अन्याधिकारोक्तं तु विवक्षितसूत्रापेक्षया अप्राकरणिकम् । तत्रोभयोर्ग्रहणे संभवति सति स्वाधिकारेणोक्तमेव प्रत्ययादि ग्राह्यं न त्वन्याधिकारोक्तम् । यथा “इञ इतः " ॥२॥४॥७१॥ इति ङीसूत्रे " यञो डायन् च वा " ॥२।४।६७॥ इत्यतः प्रारब्धात्तद्धिताधिकारात्तद्धितीय एवेञ् ग्राह्यो न तु " प्रश्नाख्याने वेञ्" ॥५।३।११९॥ इति कृत्सूत्रोक्तः । तेन सुतङ्गमेन निर्वृत्ता “सुतङ्गमादेरिञ्” ॥६।२।८५ ॥ इतीजि सौतङ्गमी; अत्र ङीः स्यात् । प्रश्नाख्यानयोस्तु न स्यात् । तत्र प्रश्ने यथा । हे चैत्र कां त्वं कारिमकार्षीः । आख्याने यथा । पृष्टः प्रत्याह; सर्वां कारिमकार्षम् । अत्र कारिशब्दादिञन्ताद् ङीप्राप्तिरस्ति परमप्राकरणिकत्वेन कृदिञ्प्रत्ययस्य “इञ इतः " ॥२॥४॥७१ ॥ इति सूत्रेऽग्रहणान्नात्र ङीः ।
अस्य च रोपकं "द्रेरञणोऽप्राच्यभर्गादेः " || ६ |१| १२३ ॥ इति सूत्रे शकादिभ्यो द्रेर्लुप् ॥६।१।१२०॥ इति सूत्राद् द्रावनुवर्त्तमानेऽपि पुनर्द्रिग्रहणम् । तद्धि एतन्न्यायात्प्राकरणिकस्यैव द्रेणोऽनेन लुब् भाविनी, नाप्राकरणिकस्येत्याशङ्कय द्विविधस्यापि द्रेणोs - नेन लुब् भवतादित्येवमर्थं कृतम् । अयं भावः । " द्रेरण - " ॥ ६ ॥ १।१२३ ॥ इति सूत्र - मपत्याधिकारेऽस्ति । एका च द्रिसंज्ञा तत्रास्ति, साऽस्य सूत्रस्यापत्याधिकारस्थस्य प्राकरणिकी, अन्या च द्रिसंज्ञा शस्त्रजीविसङ्घाधिकारेऽस्ति । साऽस्याप्राकरणिकी । अधिकारद्वयस्यापि च द्रिसंज्ञका अञण्प्रत्यया अस्मिन् सूत्रेऽधिकृतास्तेन मद्रस्यापत्यं स्त्री "पुरुमगधकलिङ्गशूरमसद्विस्वरादण्" ॥६।१।११६ ॥ इत्यनेन द्रिसंज्ञेऽणि "द्रेरञण-" ॥६।१।१२३॥ इति तल्लुपि, प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्यं विज्ञायते इति न्यायाच्च लुप्तेऽप्यणि 'अणञेय - " ||२।४।२०॥ इति ङयां, मद्री । अत्र यथा " द्रेरञण - " ॥६।१।१२३ ॥ इत्यनेनापत्यार्थस्य द्रिसंज्ञस्याणो लुप् स्यात्तथा परित्यत्र शस्त्रजीविसंघार्थस्यापि । तथाहि । पर्शुर्नाम काचित्, तस्या अपत्यानि बहवो माणवकाः "पुरुमगध- " ॥६।१।११६ ॥ इत्यणि, "शकादिभ्यो द्रेः " || ६ |१| १२० ॥ इति तल्लुपि च पर्शवः । ते शस्त्रजीविसङ्घः स्त्रीत्वविशिष्टो विवक्षितः " पर्श्वादेरण्" ॥७|३|६६ ॥ इत्यनेन द्रिसंज्ञोऽण् तस्यापि “द्रेरञण-'' ॥६।१।१२३ ॥ इत्यनेन लुप् । ततश्च " उतोऽप्राणिनश्चायुरज्ज्वादिभ्य ऊङ् " ॥२॥४॥७३॥ इत्यूङि, पर्भूरिति ।
44
11
૫૧