________________
न्यायसङ्ग्रहस्य -
न्या. सू. २/२, ३ - चान्यस्वार्थिकप्रत्ययान्तानां सर्वादित्वापोहार्थं डतरडतमग्रहणयत्नस्तदा क्रियते यद्यविशेषेण सर्वस्वार्थिकप्रत्ययान्तानां सर्वादित्वप्राप्तिः कथमपि स्यात् । तत्प्राप्तिश्चैतेषामेतन्यायादेवस्ति; प्रकारान्तराभावात् । तदेवमेतन्यायबलात्सर्वस्वार्थिकप्रत्ययान्तानां सर्वादिशब्दानां प्रकृतिसर्वादित्वद्वारेण सर्वादित्वे प्राप्नुवति सति डतरडतमेतरस्वार्थिकप्रत्ययान्तानां सर्वादित्वं निषेद्धं यद् डतरडतमोपादानं सर्वादिगणे कृतं तदेतन्यायाविनाभावित्वादेतन्यायज्ञापकमिति व्यक्तमेव ।
अनित्यश्चायम् । तेन पणायतीत्यादौ पणिधातोरिदित्त्वेऽपि नात्मनेपदम् । अनित्यताज्ञापकं तु कामयते इत्यादावात्मनेपादार्थ कमेणिडो ङित्करणम् । अस्यैकान्तिकत्वे हि कमेर्डित्त्वेनैवात्रात्मनेपदं सिद्धमिति कुतस्तदर्थं णिङो ङित्त्वं कुर्यात् ॥१॥
प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ॥ २ ॥ ग्रहणमिति अत्रोत्तरत्र च संबन्धः । यत्र विवक्षितशब्दः प्रत्ययरूपोऽप्रत्ययरूपश्च संभवेत्तत्रासौ प्रत्ययरूप एव ग्राह्यो न त्वप्रत्ययरूपः । उभयोर्ग्रहणे प्राप्ते व्यवस्थार्थोऽयं न्यायः । एवमुत्तरन्यायत्रयेऽपि वाच्यम् । यथा "कालात्तनतरतमकाले" ॥३।२।२४॥ इत्यस्मिन् सप्तम्यलुब्विधायिसूत्रे तरतमौ प्रत्ययौ ग्राह्यौ, न तु तरति ताम्यतीत्यचि व्युत्पन्ने नाम्नी ।
अस्य व्यापकं तु सूत्रे अविशिष्टोक्तिस्तथाहि । तरतमौ तावदत्र प्रत्ययावभीष्टौ, न तु नाम्नी । पूर्वाह्नेतरां, पूर्वाह्नेतमामित्यादिप्राच्यप्रयोगेषु प्रत्यययोरेव तयोर्दर्शनात्; तथापि यत्सूत्रे निर्विशेषमूचे, तदेतन्न्यायाशयैव ।
अस्य अस्थैर्याच्च "स्त्रीदूतः" ॥१।४।२९॥ इत्यादौ "नारी-" ॥२।४७६॥ इत्यादिङीप्रत्ययान्तवत्तरीत्याद्या अव्युत्पन्नत्वेन प्रत्ययरहिता अपि ईदन्ता ग्राह्याः । अस्थैर्यरव्यापकं तु “धातोरिवर्ण-" ॥२।१५०॥ इति सूत्रे साक्षात् प्रत्ययग्रहणम् ॥ २ ॥
__ अदाद्यनदाद्योरनदादेरेव ॥ ३ ॥ धातोरिति शेषः । यत्र विवक्षितधातुरदादिगणसत्कोऽन्यश्च संभवेत्तत्रान्यो ग्राह्यो न त्वदादिसत्कः । यथा “उपान्वध्याङ्वसः" ॥२।२।२१॥ इत्यत्र वस्तेढुंदासेन वसतिरेवाग्राहि ।
____ स्थापकं त्वस्य "शासस्हनः शाध्येधिजहि" ॥४।२।८४॥ इत्यत्रास्तेरादादिकस्य ग्रहणसिद्ध्यर्थं शास्हन्साहचर्यबलग्रहणम् । तद्धि एतन्यायादसत्यस्यत्योर्ग्रहणं मा
= ५०