________________
वक्ष.० २/१]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । इति प्राक्तनी न्यायवृत्तिं वचित् क्वचिदुपजीव्य कृता प्रभुश्रीहेमचन्द्राचार्यसमुच्चितसप्तपञ्चाशन्मितन्यायबृहद्वृत्तिः ॥ श्रीसूरीश्वरसोमसुन्दरगुरोनिश्शेषशिष्याग्रणी
गच्छेन्द्रः प्रभुरत्नशेखरगुरुर्देदीप्यते सांप्रतम् । तच्छिष्याश्रवहेमहंसगणिना न्यायार्थमञ्जूषिकावक्षस्कारक आद्य एष रचितः संपूर्णताभाजनम् ॥ १ ॥
ग्रन्थमानम् १००१ अक्षराणि २५||
.
अथ द्वितीयो वक्षस्कार : ।
अथ स्वसमुच्चितन्याया विवियन्ते । प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् ॥ १ ॥
अत्र प्रकृतिर्धातुरूपा नामरूपा च संभवति । स्वार्थिकप्रत्ययान्तानामिति; प्रकृतीनामिति शेषः । प्रकृतिनां केवलत्वे, स्वार्थिकप्रत्ययान्तत्वे च, बहुः शब्दभेदः स्यात्ततः शब्दभेदादन्यस्य कथनेऽन्यग्रहणं न प्राप्नोतीत्यतोऽयं न्यायः ।। - तत्र धातुरूपा प्रकृतिर्यथा "विनिमेयद्यूतपणं पणिव्यवहोः" ॥२।२।१६॥ इत्यत्र पणीत्युक्तेः पणेः केवलस्यैव ग्रहणं यद्यपि प्राप्नोति तथापि स्वार्थिकायप्रत्ययान्तस्यापि स्यात् । तेन शतस्य शतं वा अपणिष्टेत्यादाविव, शतस्य शतं वा अपणायीदित्यादावपि “विनिमेयत-" ॥२।२।१६॥ इत्यनेन व्याप्यस्य वा कर्मत्वं सिद्धम् । नामरूपा यथा. । ग्रामात्परस्मिन् देशे वसतीत्यादौ केवलपरशब्दयोग इव ग्रामात्परस्ताद्वसतीत्यादौ "परावरात् स्तात्" ॥७।२।११६॥ इति सूत्रविहितस्वार्थिकस्तात्प्रत्ययान्तपरशब्दयोगेऽपि ग्रामशब्दात् "प्रभृत्यन्यार्थ-" ॥२।२७५॥ इति दिक्शब्दयोगलक्षणा पञ्चमी सिद्धा ।
अस्य ज्ञापकं तु नियमार्थं सर्वादिगणे डतरडतमप्रत्ययोपादानम् । तथाहि । डतरडतमोपादाने तावदयं भावः । डतरडतमौ प्रत्ययौ । प्रत्ययानां च केवलानां सर्वादित्वासंभवात् प्रत्ययः प्रकृतिमाक्षिपतीति कृत्वा येभ्यो यत्तत्किमन्यैकशब्देभ्यः स्वार्थिको डतरडतमौ संभवतस्ते यदादिशब्दा डतरडतमान्ता इह डतरडतमशब्देन गृह्यन्ते । तेन यतरस्मै यतमस्मादित्यादिषु स्मायादयः सिद्धाः । इदं च डतरडतमोपादानं नियमार्थमित्युक्तं सूरिणा । नियमश्चैवम् । यदि सर्वादीनां स्वार्थिकप्रत्ययान्तानां प्रकृतिसर्वादित्वद्वारेण सर्वादित्वं स्यात्तदा डतरडतमान्तानामेव स्यान्नत्वन्यस्वार्थिकप्रत्ययान्तानाम् । तेन प्रकृष्टार्थे स्वार्थिकतमपि, सर्वतमाय सर्वतमात्; अत्र सर्वादित्वाभावात् स्मैस्मातौ नेति । इत्थं
४८