________________
न्यायसङ्ग्रहस्य -
[न्या. सू. १/५७ - "कर्तृस्थामूर्ताप्यात् ॥३३॥४०॥ इति सूत्रं यत्कृतं तत्तावन्नियमार्थम् । नियमश्चायम् । कर्तृस्थामू प्यादेव नयतेरात्मनेपदं स्यात् । यथा श्रमं विनयते; शमयतीत्यर्थः । कर्तृस्थामूर्ताप्यत्वाभावे तु फलवत्कर्तर्यपि न स्यात् । यथा चैत्रस्य मन्युं विनयति, गडं विनयति, बुद्धया विनयतीति । अयं च नियमः "कर्तृस्था-" ॥३।३।४०॥ इति सूत्रे अर्थविशेषानुक्तावपि शमयतिक्रियार्थस्यैव नयते यो न त्वन्यार्थस्य; इत्थमेव शिष्टानामिष्टत्वात् । ततश्चैवं व्यवस्थितम् । शमयतिक्रियार्थान्नयतेर्यद्यात्मनेपदं स्यात्तदा कर्तृस्थामूर्त्ताप्यत्वसद्भाव एव स्यान्न तु तदभावे फलवत्कर्तृविवक्षयाऽपीति । तेन शमयतिक्रियातोऽन्यार्थे वर्तमानानयतेः सर्वत्र फलवत्कर्तृविवक्षाऽविवक्षाभ्यामात्मनेपदपरस्मैपदे सिद्धे । यथा अजां ग्राम नयते नयति वा ॥ श्री आदिनाथ इत्यादिष्वपि यो यत्वाद्यभावः सोऽपि यदि शिष्टसंमतस्तदाऽनेन न्यायेन सिद्धो ज्ञेयः ॥
न्यायस्य यथा || लोपात्स्वरादेश इति न्यायश्चिकीर्ण्यते इत्यादौ चिकीर्ष इति स्थिते "क्यः शिति" ॥३।४७०॥ इति क्ये परे सनो "दीर्घश्च्वि -" ॥४।३।१०८॥ इति दीर्घरूपाय स्वरादेशाय नोत्सहते; दीर्घस्य शिष्टानामनिष्टत्वात्। ततश्च सनो "अतः" ॥४।३।८२॥ इत्यल्लोप एव स्यात् ।
प्रबोधकं त्वस्य तत्र तत्र तत्तद्विशेषणानुक्तिरेव । तथाहि । “कर्तृस्था-" ॥३।३।४०॥ इति सूत्रे शमयत्यर्थस्य नयतेरिति विशेषणं; लोपात् स्वरादेश इति न्याये च "दीर्घश्च्वि -" ॥४।३।१०८॥ इति दीर्घवर्जः स्वरादेश इति विशेषणं यन्नोक्तं, तदेतन्यायाशयैवेति ।
अस्य च अनात्यन्तिकत्वात् “इदमदसोऽक्येव" ॥१।४।३॥ इत्यत्रानिष्टनियमापोहार्थमेवकारप्रयोगस्तथाहि । "इदमदस-" ॥१।४।३॥ इत्यस्य नियमसूत्रमात्रत्वं तावदे-वकारं विनाऽपि सिद्धम् । कथम् । इमकैः, अमुकरित्यत्र "भिस ऐस्' ॥१।४।२॥ इत्यनेनैव ऐसि सिद्धे यतत्सूत्रं कृतं तन्नियमार्थमेव; सिद्धे सत्यारम्भ इति न्यायादिति । परमत्र नियमप्रकारौ द्वौ संभवतः। इदमदस एवाकि भिस ऐस् नत्वन्यशब्देभ्य इत्येकः । इदमदसोऽक्येव सति भिस ऐस् न त्वकोऽभावे इति द्वितीयः । तत्राद्योऽनिष्टस्तकैर्विश्वकैरित्यादावपि भिस ऐस् दर्शनात् । द्वितीयस्त्विष्टः । एभिरमीभिरित्यत्र भिस ऐसोऽदर्शनात् । ततोऽस्यैव व्यवस्थापनार्थमक्येवेत्येवकारः प्रयुक्तः । यदि चायं न्याय आत्यन्तिकः स्यात्तदा अनेनैव न्यायेनानिष्टनियमापोहो भावी; तद्भवने च पारिशेष्याद् इष्टनियम एव भविष्यतीति कुतस्तदर्थमेवः प्रयुज्यते ॥ ५७ ॥
४८