________________
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
अन्तरङ्गाच्चानवकाशम् ॥ ५४॥
बहिरङ्गमपीति शेषः । यथा त्वम्, अहम्, अत्र प्रकृतिमात्रादेशत्वेनान्तरङ्गाभ्यामपि त्वमादेशाम्यां प्रागेव प्रकृत्तिप्रत्ययादेशत्वाद्बहिरङ्गावपि त्वमहमादेशौ निरवकाशत्वात् स्याताम् ।
१/५४, ५५, ५६, ५७]
44
अस्य स्फातिकृत्तु 'त्वमहं सिना प्राक् चाकः " ॥ २|१|१२ ॥ इति सूत्र - करणम् । तथाहि । त्वं अहमित्यत्रापि यद्यन्तरङ्गत्वात्त्वमादेशावेव स्यातां तदा " त्वमहं सिना - " ॥२॥१॥१२॥ इति सूत्रं प्रवृत्त्यवकाशाभावात् कुर्यादेव न । यत्तु कृतं तदेतन्यायात् सौ परे त्वमादेशौ बाधित्वा त्वमहमादेशावेव भविष्यत इत्याशयैव ।
यादृच्छिकता त्वस्य नास्ति ॥ ५४ ॥ उत्सर्गादपवादः ॥ ५५॥
यथा आपचन्त्यस्मिन्निति आपाकः; अत्रौत्सर्गिकस्य " पुंनाम्नि घः " ||५|३ | १३० ॥ इति घस्यापवादो “व्यञ्जनाद् घञ् " ||५|३|१३२ ॥ इति घञेव बलवत्त्वात् स्यात् ।
प्रादुष्कारकं चास्य गोचरादीना " गोचरसंचरवहव्रजव्यजखलापणनिगमबकभगकषाकषनिकषम्” ॥ ५ | ३ | १३१ ॥ इति सूत्रेण निपातनम् । तद्धि निपातनाभावे एतन्यायादौत्सर्गिकं घं बधित्वा अपवादत्वाद् घञेव मा प्रसाङ्क्षीदित्यतः कृतम् । अपराक्रमश्चायम् । उत्तरेणैतदेकान्तस्य त्रास्यमानत्वात् ॥ ५५ ॥
अपवादात् क्वचिदुत्सर्गेऽपि ॥ ५६ ॥
1. यथा मख गतौ, मखन्ति स्वर्गं गच्छन्त्यनेनेति मखः । मठ निवासे, मठन्ति निवसन्ति छात्रादयोऽत्रेति मठः; इत्यादौ "व्यञ्जनाद् घञ् " ||५|३|१३२॥ इति घञमपवादमपि बाधित्वा बलवत्त्वादौत्सर्गिकः "पुंनाम्नि " || ५ | ३ | १३० ॥ इति घः स्यात् । अस्याविष्कारकं तु मखमठादिसिद्ध्यै यत्नान्तराकरणम् । अनित्यता त्वस्य न संभवति ॥ ५६ ॥
नानिष्टार्था शास्त्रप्रवृत्तिः ॥ ५७ ॥
शास्त्रस्येति कोऽर्थः, सूत्रस्य न्यायस्य वाऽनभिप्रेतार्थसिद्ध्यै प्रवृत्तिर्न कार्या । शिष्टप्रयोगसिद्ध्यर्थमेव तत्सद्भावात् । अनिष्टप्रयोगसिद्धिप्रतिबन्धार्थोऽयं न्याय: । तत्र सूत्रस्य यथा । नयतेर्गित्त्वात्फलवत्कर्त्तृविवक्षयाऽऽत्मनेपदे सिद्धेऽपि
४७