________________
न्यायसङ्ग्रहस्य - न्या. सू. १/५२, ५३ -
परान्नित्यम् ॥ ५२ ॥ "स्पर्द्ध" ॥७।४।११९॥ इति परिभाषापवादोऽयम् । यथा युष्मानस्मान् वा आचक्षाणेन युष्या, अस्या; अत्र युष्मदस्मद्भयां णिजि "त्रन्त्यस्वरादेः" ॥७।४।४३॥ इत्यल्लुकि, विपि, "अप्रयोगीत्" ॥११॥३७॥ इति तल्लुकि, "णेरनिटि" ॥४।३।८३॥ इति णिज्लुकि, टाप्रत्यये, पराभ्यामपि त्वमादेशाभ्यां प्रागेव नित्यत्वाद् "टाङयोसि यः" ॥२॥१७॥ इति मस्य यत्वं सिद्धम् । यत्वं हि प्रथमं युष्म् अस्म् इत्येतयोर्मस्य प्राप्नोति; त्वमादेशभवनानन्तरं तु त्वमयोरकारस्य यत्वं प्राप्नोतीत्यतो यत्वस्य नित्यत्वम् ।
अस्य न्यायस्य ज्ञप्तिस्तु मा भवानटन्तं प्रायुक्त (प्रयुक्त) इति मा भवानटिटद् इत्यादौ नित्यमपि द्विर्वचनं बाधित्वा अनित्योऽपि प्रागेव "उपान्त्यस्यासमानलोपिशास्वृदितो डे' ॥४।२।३५॥ इति ह्रस्वः स्यादित्यस्यार्थस्य ज्ञप्त्यै ओणेर्ऋदित्करणात् । तथाहि । मा भवानोणिणदित्यादौ ऋदित्त्वादुपान्त्यहस्वनिषेधो यथा स्यादित्येवमर्थं तावदोणेर्ऋदित्त्वं कृतम् । यदि च नित्यत्वात्पूर्वमेव "स्वरादेर्द्वितीयः" ॥४।१।४॥ इति द्वितीयांशस्य द्वित्वं स्यात्तदा ओकारस्यानुपान्त्यत्वादेव हुस्वत्वस्याप्राप्तिरिति किं तन्निवृत्त्यर्थेन ऋदित्करणेन । यत्तु ऋदित्त्वं कृतं तज्ज्ञापयति पूर्वं द्वित्वं न स्यात्, किन्तु सर्वत्र हुस्व एव पूर्वं स्यादिति । तथाच मा भवानटिटदित्यादि सिद्धम् । ततश्च यद्ययं न्यायो नाभविष्यत्तदेत्थं हूस्वप्राथम्यज्ञप्त्यै ओणेॠदित्करणयत्नं सूरि करिष्यत्; परत्वादेव हुस्वप्राथम्यसिद्धेः । केवलमेतन्यायेन परादपि नित्यस्य बलवत्त्वान्नित्यं द्वित्वमेव प्रथमं भविष्यति न त्वनित्य उपान्त्यहूस्वः । तथाच मा भवानटिटदित्यादिप्रयोगा न सेत्स्यन्तीत्याशङ्कय तेषां सिद्धयर्थं हूस्वप्राथम्यज्ञप्त्यै ओणेर्ऋदित्त्वयत्नः कृतः ॥ ५२ ॥
नित्यादन्तरङ्गम् ॥ ५३ ॥ अनित्यमपीति शेषः । यथा प्रेजुः प्रोपुरित्यत्र यज्वपो व॒द् य्वदाश्रयं च इति न्यायात्प्रथमं य्वति,द्वित्वे,पदद्वयापेक्षत्वेन बहिरङ्गान्नित्यादप्येत्वादोत्वाच्च प्रथममेवानित्योऽप्येकपदाश्रयत्वेनान्तरङ्गत्वाद्दीर्घ एव स्यात् ।
अस्य ख्यातिकृत्तु "आशी:-" ॥३।३।१३॥ इति सूत्रनिर्देशस्तथाहि । अत्र तावत् सेर्लोपे आशिस् इति स्थिते सो रुत्वे विसर्गः प्राप्नोति; "पदान्ते" ॥२॥१६४॥ इति दीर्घश्च । तत्र एतन्न्यायान्नित्यमपि विसर्ग बाधित्वा पूर्वव्यवस्थितत्वेनान्तरङ्गत्वात् प्रथम दीर्घस्ततो विसर्गः । एतन्यायाभावे तु पूर्वन्यायेन प्रथमं विसर्गे पश्चाद्रेफाभावाद् दीर्घाभवने, “आशी:-'" ॥३॥३॥१३॥ यं इति निर्देशासम्भव एव ।
न चायं ऊर्जस्वलः, अग्रेतनेन ग्रस्यमानत्वात् ॥ ५३ ॥
= ४६