________________
- १/५०, ५१] .
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । ग्विधानम् । तथाहि । यद्ययं न्यायो न स्यात्तदा श्रायमित्यादिसिद्धयर्थं, "अवर्णेवर्णस्य" ॥७।४।६८॥ इत्यस्याग्रे "वृद्धिः स्वरेष्वादेः-" ॥७।४।१॥ इति वृद्धिसूत्रं कुर्यात्तथा च परत्वादेव प्रथमं वृद्धिः सिध्येद् । यत्तु तथा न कृतं तदेतन्यायाशयैव । अस्य च कार्य, नानिष्टार्था शास्त्रप्रवृत्तिरिति न्याये वक्ष्यते ॥ ४९ ॥
आदेशादागमः ॥ ५० ॥ यथा अर्पयतीत्यत्र ऋधातोर्णी वृद्धिमादेशरूपां बाधित्वा प्रथमं प्वागमस्ततः "पुस्पौ" ॥४॥३३॥ इति गुणरूप आदेशः सिद्धः ।
अस्य प्रादुष्करणं चैतदर्थं यत्नाकरणम् ।
अस्य च क्षामत्वाद् द्वयोः कुलयोरित्यत्र द्विशब्दात् "अनाम्स्वरे नोऽन्तः" ॥१।४।६४॥ इत्यनेन न नागमः, किन्तु "आढेर :" ॥२॥१॥४१॥ इत्यत् । ननु अत्र परत्वादन्तरङ्गत्वाच्च नागमं बाधित्वा "आढेर :" ॥२।१।४१॥ इत्यत् इत्युक्तमस्ति "अनामस्वरे"-॥१।४।६४॥ इत्यस्य न्यासे; तत्कथमेतन्न्यायानित्यतोदाहरणमिदं सङ्गच्छते । सत्यम्, परं यद्येष न्यायो बलिष्ठः स्यात्तदा परत्वेऽन्तरङ्गत्वे च सत्यपि "आढेर :" २।१।४१॥ इत्यत्वं बाधित्वा नागम एव स्यात्। एतन्यायस्य विशेषविधिरूपत्वात् । यत्तु नाभूत्तदस्याबलिष्ठत्वादेव ॥ ५० ॥
___ आगमात्सर्वादेशः ॥ ५१ ॥ . पूर्वापवादोऽयम् । यथा प्रियतिसृणः कुलात्; अत्र सर्वादेशे तिसरि कृते सति नागमः सिद्धः । _ आविष्करणं चास्य "ऋतो र स्वरेऽनि" ॥२॥१॥२॥ इत्यत्र तिस्रादिऋतो रत्वविधावनीतिशब्देन नकारविषयवर्जनोक्तिस्तथाहि । यद्ययं न्यायो न स्यात्तदा स्वरादौ स्यादौ परे प्राग्न्यायेन पूर्वं नागमस्यैव भवनान्नागमव्यवधाने च तिस्राद्यादेशाभवनात्कस्य ऋतो रत्वविधौ नकारविषयो वयेत । तथापि यदेवं कृतं तदेतन्यायात्तिस्रादेः प्रथमं भवनं तदनु नागमविषयभवनं च संभाव्यैव। ननु नागमं विनाऽपि प्रियतिसृणामित्यादावामो नाम्विषये तिस्रादे रत्वं निषेद्धमनीति नकारविषयवर्जनं कृतं भावि । मैवम् । यतस्तन्मात्रार्थत्वे, अनामीत्येवासन्दिग्धार्थमुच्येत । यत्त्वनीति साधारणशब्देन नकारविषयवर्जनं कृतं तन्नागमापेक्षयैव ।
अस्थेमा त्वस्य न दृश्यते, उत्तरस्य च ॥ ५१ ॥
४५