________________
न्यायसङ्ग्रहस्य -
[न्या. सू. १/४९ - वृद्धिश्चावितिक्ङ लोपे" ॥४।३।११॥ इति सूत्रे लोपशब्देन यथा संगृहीतमस्ति तथाऽस्मिन्यायेऽपि संगृहीतं द्रष्टव्यम् । ततश्चायमर्थः । लुग्विधिः सर्वविधीन् बाधित्वा बलवत्त्वात् प्राक् प्रवर्त्तते । यथा अबुद्धत्यत्र "धुड्ड्स्वाद्-" ॥४।३७०॥ इत्यनेन सिचः सर्वेभ्यः प्रथमं लोपाद् "गडदबादे-श्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्थ्वोश्च प्रत्यये" ॥२।१।७७॥ इत्यनेनादेश्चतुर्थत्वं न ।
न च लुप्तस्यापि सिचः स्थानिवद्भावेन आदेश्चतुर्थत्वं करिष्यते इति वाच्यम् । चतुर्थत्वविधेः सकारादिप्रत्याश्रितत्वाद्वर्णविधित्वेन तस्मिन् कर्तव्ये स्थानिवद्भावाप्राप्तेः । तथा शं सुखं तत्र तिष्ठतीति विपि शंस्थाः कश्चित् । अत्र स्थाधातोराकारस्य "ईर्व्यञ्जनेऽयपि" ॥४।३।९७॥ इति ईर्न; क्विपोऽदर्शनस्य सर्वकार्येभ्यः प्रथमं भवनात् । ईत्वसूत्रे च . व्यञ्जनशब्दस्य साक्षाद्वयञ्जनप्रतिपत्तये ग्रहणात् ।
स्फातिदं त्वस्य "सस्तः सि' ॥४।३।९२॥ इत्यत्र विषयसप्तमीव्याख्यानम् । तथाहि । यदि तावत्सीत्यत्र निमित्तसप्तमी व्याख्यायते तदा वसेरद्यतनीतामि अवात्तामित्यादौ सिजुत्पादानन्तरमेतन्यायाल्लोपविधेर्बलीयस्त्वेन पूर्वमेव "धुड्ड्स्वाद्-" ॥४।३७०॥ इत्यनेन सिज्लोपात् "सस्तः सि" ॥४।३।९२॥ इति सस्तो न सिध्यति । नाप्यत्र सिज्लोपस्य स्थानिवद्भावं कृत्वा सस्तः कर्तुं शक्यते । “सस्तः सि" ॥४।३।९२॥ इत्यनेन चिकीय॑माणस्य तविधेनिमित्तभूतसकाररूपवर्णाश्रितत्वाद्वर्णविधित्वेन स्थानिवद्भावाप्राप्तेरित्याशङ्कय सूरिभिः सीत्यत्र विषयव्याख्यानं कृतम् । ततश्च वसेरद्यतनीतामि अवात्तामित्यादौ सिज्वषय एव "सस्तः सि" ॥४।३।९२॥ इति सस्य तत्वे, ततः सिचि, तस्य लुकि, स्थानिवद्भावे च "व्यञ्जनानामनिटि" ॥४।३।४५॥ इति वृद्धिः सिद्धा । न चात्रापि प्राग्वत् स्थानिवद्भावो न प्राप्स्यतीति वाच्यम् । सिचो विशिष्टवर्णसमुदायरूपत्वाद्वर्णरूपत्वाभावेन तदाश्रिताया वृद्धवर्णविधित्वाभावात् स्थानिवद्भावस्य सुतरां प्राप्तेरिति । इह च न्याये लोपशब्देन यदि लुबपि व्याख्यायते तदा पूर्वन्यायं विनाऽपि सरति । परं पूर्वाचार्यैरसौ पृथगुक्त इत्यतोऽत्रापि तथैवोचे । कृशश्चायम्; उत्तरेण जीयमानत्वात् ॥ ४८ ॥
लोपात्स्वरादेशः ॥ ४९ ॥ बलवानिति योज्यम् । एवमग्रेतनन्यायसप्तकेऽपि । लोपशब्दश्चात्रापि लुग्वाची, पूर्वापवादत्वादस्य । यथा श्रीर्देवताऽस्य "देवता" ॥६।२।१०१॥ इत्यणि, श्रायं हविरित्यत्र परमपि “अवर्णेवर्णस्य" ॥७४।६८॥ इति ईकारलुकं बाधित्वा स्वरादेशो वृद्धिरभूत् ।
अस्य व्यक्तिदं तु वृद्धिसूत्रस्य, "अवर्णेवर्णस्य" ॥७।४।६८॥ इति सूत्रात्या
= ४४