________________
१ / ४७, ४८]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
यस्मै कोप इत्यनिर्दिश्य यं प्रति कोप इति निर्देशात् । तथाहि । अत्र तावत् कुप्यतिना योगादनेनैव सूत्रेण यदः सम्प्रदानसंज्ञासंभवाच्चतुर्थी प्राप्नोति; प्रतिना योगात् " भागिनि च प्रतिपर्यनुभिः" ॥२|२| ३७ ॥ इत्यनेन द्वितीया च । यदि चायं न्याय ओजस्वी स्यात्तदोपपदविभक्तिं द्वितीयां बाधित्वा कारकविभक्तेश्चतुर्थ्या भवने यस्मै प्रति कोप इति निर्दिश्येत । चतुर्थ्यागमनादनु प्रतिशब्दस्य व्यर्थकीभूतत्वाद् निमित्ताभावे नैमित्तिकस्याप्यभावइति न्यायेन तत्प्रयोगस्यापि निवृत्तौ यस्मै कोप इति वा निर्दिश्येत । परमेतस्यानोजस्वित्वाचतुर्थी बाधित्वा द्वितीयैवात्राजनीत्यतो यं प्रतीति निर्दिष्टम् ॥ ४६ ॥
लुबन्तरङ्गेभ्यः ॥ ४७ ॥
अन्तरङ्गेभ्योऽपीत्यपिरत्राध्याहार्यः । बहिरङ्गाऽपि लुप् अन्तरङ्गानपि विधीन् बाधित्वा बलवत्त्वात्प्राक्ं प्रवर्त्तते । यथा गर्गस्यापत्यानि वृद्धानि " गर्गादेर्यञ् " || ६ |१| ४२ ॥ इति यञि, गर्गाः; अत्र प्रकृत्याश्रितत्वादन्तरङ्गामपि " वृद्धिः स्वरेष्वादे:- " ॥७।४।१ ॥ इति वृद्धिं बाधित्वा प्रत्ययाश्रितत्वाद्बहिरङ्गाऽपि "बहुष्वस्त्रियाम् " || ६ |१| १२४ ॥ इति यत्रो लुबेव प्रथमं स्यात् । पश्चात्तु न वृद्धिञ्णित्प्रत्ययस्य लुब्भवनात् ।
ख्यातिदं त्वस्य " त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ॥ २|१|११ ॥ इत्यत्र स्याद्यधिकारेणैव सर्वप्रयोगेषु सिद्धयत्सु त्वदीयः, मत्पुत्र इत्याद्यर्थं प्रत्ययोत्तरपदग्रहणम् । तथाहि । त्वदीयः, मत्पुत्र इत्यादौ तावद्युष्मद् अस् ईय स्; अस्मद् अस् पुत्र स् इति स्थिते ऐकार्थ्यविवक्षायामन्तर्वर्त्तिन्या विभक्तेर्लुप् प्राप्नोति; सा चातीव बहिरङ्गा, बहिरङ्गैकार्थ्यापेक्षत्वात् । कथम् । ऐकार्थ्यस्य तावत् प्रकृतिप्रत्ययौ पदद्वयं वाऽपेक्षमाणत्वेन स्फुटमेव 'बहिरङ्गत्वम् । ततो बहिरङ्गमैकार्थ्यमपेक्षमाणायाः समासान्तर्वर्त्तिविभक्तिलुपोऽतीवबहिरङ्गत्वं युक्तमेव । त्वमादेशौ तु विभक्तिमात्राश्रितत्वादन्तरङ्गाविति स्यादिद्वारेणैव तौ सिध्यतस्तथापि यत्प्रत्ययोत्तरपदग्रहणं कृतं तज्ज्ञापयत्यन्तरङ्गेभ्योऽपि कार्येभ्यो लुब्बलवतीति; तेन स्यादेः प्रथममेव लुब्भवनात्तद्द्वारेण त्वमादेशौ न सिध्यत इत्यतः प्रत्ययोत्तरपदग्रहणं सफलम् ।
अस्थामता त्वस्य नावलोक्यते ॥ ४७ ॥
सर्वेभ्यो लोपः ॥ ४८ ॥
लोपशब्दस्य लुप्लुकोर्वाचकत्वेऽपि लुपः पूर्वन्याय उक्तत्वाल्लोपशब्देनात्रादर्शनमात्ररूपा लुग् ग्राह्या; गोबलीवर्दन्यायात् । तथाच विबादीनाम् "अप्रयोगीत्" ॥१॥१॥३७॥ इत्यनेन एत्यपगच्छतीति इत् इति सान्वर्थसंज्ञाकरणाद्यददर्शनं तदपि
४३
न