________________
न्यायसङ्ग्रहस्य - न्या. सू. १/४५, ४६ - सम्बन्धिनः, कोऽर्थः, वर्णमुच्चार्य विहितात् कार्यात्प्रकृतिमुच्चार्य यत्कार्यमुक्तं तद्बलवत् । अन्तरङ्गं बहिरङ्गाद् इत्यस्यापवादोऽयम् । यथा ऊवतुः, ऊवुः इत्यत्र वेंग तन्तुसन्ताने इत्यस्य "यजादिवचेः किति" ॥४।१७९॥ इति य्वृति द्वित्वे च उकारद्वयावस्थाने सति वेंग् धातुसम्बन्ध्युकारद्वयाश्रिततया प्रकृत्याश्रितत्वात् पूर्वव्यवस्थित्वाच्चान्तरङ्गं "समानानां तेन". ॥१।२।१॥ इति दीर्घत्वं प्रथमं प्राप्नोति । पश्चात्प्रत्ययाकारनिमित्तकतया प्रत्ययाश्रितत्वात् द्वितीयोकारसम्बद्धतया बहिर्व्यवस्थितत्वाच्च बहिरङ्गो "धातोरिवर्ण-" ॥२॥१॥५०॥ इत्युव् न प्राप्नोति, अन्तरङ्गं बहिरङ्गादिति न्यायात् । तथाकरणे च उवतुः, उवुः इत्यनिष्टं रूपं प्रसज्यते । परं अन्तरङ्गं बहिरङ्गादिति न्यायं बाधित्वा एतन्न्यायाद्वहिरङ्गोऽपि “धातोरिवर्ण-" ॥२॥१५०॥ इत्युव् प्रथमं स्यात्; धातुरूपप्रकृतेर्नाम गृहीत्वा विहितत्वेन प्राकृतत्वात् । पश्चाच्चान्तरङ्गमपि "समानानां तेन" ॥१।२।१॥ इति दीर्घत्वम्; समानरूपं वर्णमुच्चार्य विहितत्वेन वार्णत्वात् ।
____ व्यञ्जकं त्वस्य अन्तरङ्गं बहिरङ्गादिति न्यायप्रसक्तानामुवतुः, उवुः इति रूपाणां निषेधनार्थं यत्नाकरणम् । दुर्बल चायम् । उत्तरन्यायस्यैतदपवादत्वात् ॥ ४४ ॥
यवृद् य्वृदाश्रयं च ॥ ४५ ॥ . वृद् वदाश्रितं च कार्यं वार्णमपि प्राकृताबलवत् । यथा उपश्वेः क्त्वि उपशूयेत्यत्र क्त्वो यपि, “हस्वस्य तः पित्कृति" ॥४।४।११३॥ इति तागमं हुस्वान्तप्रकृत्याश्रितत्वात् प्राकृतमपि बाधित्वा सस्वारान्तस्थारूपवर्णाश्रितत्वाद्वार्णमपि “यजादिवचेः-" ॥४।१७९॥ इति य्वृदभूत् । तदन्वपि च प्राकृतमपि तागमं बाधित्वा य्वृतो "दीर्घमवोऽन्त्यम्" ॥४।१।१०३॥ इति दीर्घ एवाभूत्; य्वदाश्रितकार्यरूपत्वात्तस्य ।
प्रकटीकारकं त्वस्येद्दक्प्रयोगा एव । अबलिष्ठता त्वस्य न स्पष्टतामेति ॥ ४५ ॥
उपपदविभक्तेः कारकविभक्तिः ॥ ४६ ॥ बलवतीति योगः । यथा नमस्यति देवानित्यत्र "शक्तार्थवषड्नमःस्वस्तिस्वाहास्वधाभिः" ॥२।२।६८॥ इति नमोयोगलक्षणां चतुर्थी बाधित्वा कर्मणि कारकविभक्तिद्धितीया स्यात् ।
ज्ञप्तिदं त्वस्य प्राग्वत् । अनोजस्वी चायम् । "क्रुद्रुहेासूयायैर्य प्रति कोप:'" ॥२।२।२७॥ इति सूत्रे
४२