________________
- १/४२, ४३, ४४] न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
यायावरश्चायम् । नित्यादन्तरङ्गमित्याद्यैर्बाध्यमानत्वात् ॥ ४१ ॥ -
अन्तरङ्गं बहिरङ्गात् ॥ ४२ ॥ __ बलवदिति अत्रोत्तरत्र च सम्बन्धः । व्याख्या तु प्राग्वत् । यथा त इन्द्रं वृक्ष इन्द्रमित्यत्र क्रमेण जस इत्वे ङौ च कृते "सामानानां तेन-" ॥१।२।१॥ इति इन्द्रेकारेण सह जसो डेश्चकारस्य प्राप्तात्पदद्वयापेक्षत्वेन बहिरङ्गाद्दीर्घात्प्रथमम् “अवर्णस्येवर्णादिना-" ॥१।२६॥ इत्येत्त्वमेव स्यात् । एकपदापेक्षत्वेनान्तरङ्गत्वात् ।
स्फुटीकारकं त्वस्य "वृत्त्यन्तोऽसषे" ॥१।१।२५॥ इति निर्देशस्तथाहि । अत्र तावद् वृत्त्यन्तशब्दपुरःस्थस्य रोः उत्वे कृते सति उभयं प्राप्नोति; पूर्वेण सह ओत्वं पुरःस्थेन असषे इत्यस्य अकारेण सह वत्वं च । तत्र पदद्वयाश्रितत्वाबहिरङ्गं वत्वं बाधित्वा एकपदापेक्षत्वादन्तरङ्गमोत्वं यन्निर्दिष्टं तदेतन्यायबलाशयैव ।।
निर्बलश्चायम् । वार्णात्प्राकृतं, लुबन्तरङ्गेभ्यः, अन्तरङ्गाच्चानवकाशम् इत्याद्यैर्निरुध्यमानत्वात् ॥ ४२ ॥
निरवकाशं सावकाशात् ॥ ४३ ॥ . निर्सहशब्दावत्राल्पबह्वर्थों; निर्धनः सधन इत्यादिवत् । ततश्चाल्पविषयं कार्यं बहुविषयात्कार्याद्बलवदिति कोऽर्थः तद्बाधित्वा स्वयं प्रवर्त्तते । यथा “एबहुस्भोसि॥१।४।४॥ इत्यस्य भिसि भ्यसि च विषयः । “भिस ऐस्''॥१।४।२॥ इत्यस्य तु भिस्येव । ततो वृक्षैः इत्यादौ परमपि "एबहुस्भोसि" ॥१।४।४॥ इति बाधित्वा निरवकाशत्वाद् “भिस ऐस्" ॥१।४।२॥ इत्येव प्रवर्त्तते । “एद्वहुस्भ्-" ॥१।४।४॥ इत्यस्य एभिः, एभ्य इत्यादौ सावकाशत्वात् ।
. स्पष्टीकारकं त्वस्य "भिस ऐस्" ॥१।४।२॥ इति सूत्रमेव । तथाहि एतन्यायाभावेन यदि वृक्षः इत्यादावपि "एबहुस्भ्-" ॥१।४।४॥ इत्येत्त्वमेव स्यात्तदा "भिस ऐस्" ॥१।४।२॥ इति सूत्रं कुर्यादेव न । तस्य प्रवृत्त्यवकाशाभावात् । यत्तु कृतं तदेतन्यायेन "भिस ऐस्' ॥१।४।२॥ इत्यस्य बलवत्त्वं, तत एव वृक्षरित्यादावस्य सूत्रस्य प्रवृत्तिं च सम्भाव्यैव; अन्यथा तत्करणनेरर्थक्यात् । अबलता त्वस्य नास्ति ॥ ४३ ॥
वार्णात्प्राकृतम् ॥ ४४ ॥ प्रकृतिरत्र धातुरूपा ग्राह्या न नामरूपा; तत्कार्याणां वार्णेष्वेवान्तर्भावात् । वर्ण
૪૧