________________
न्यायसङ्ग्रहस्य -
[न्या. सू. १/४१ - अभिव्यञ्जकं त्वस्य कलिहलिशब्दयोर्णी प्रथमत एव "त्रन्त्यस्वरादेः" ॥७।४।४३॥ इत्यनेन इकाररूपस्यान्त्यस्वरस्य लुग्भवतु; अन्त्यस्वरादिलुचो नित्यत्वादेतन्यायेन बलवत्वात् । परं पटुलघुशुचिरुच्यादिशब्दानां णावनित्यामप्यन्त्यस्वरस्य वृद्धिं कृत्वैव नित्याऽप्यन्त्यस्वरादिलुक्कार्या न त्वन्यथेत्यस्यार्थस्य व्यवस्थापनाय "नामिनोऽकलिहलेः" ॥४॥३॥५१॥ इत्यत्र कलिहलिवर्जनोपायकरणम् । तद्धि कलिहल्योरिव पटुलघ्वादिशब्देष्वपि नित्यत्वादेतन्यायेन बलवत्वाणणावन्त्यस्वरादिलुगेव या प्रथमं प्राप्नोति सैव प्रथममेव मा प्रवर्त्ततामित्येतदर्थम् ।
अयंभावः । कलिहल्योः कलिं हलिं वा आख्यदिति ङपरे णौ "असमानलोपे सन्वल्लघुनिडे' ॥४।१।६३॥"लघोर्दीर्घोऽस्वरादेः" ॥४।१६४॥ इत्याभ्यां प्राप्तौ सन्वद्भावदीर्धी न दृश्यते । यथा अचलकत्, अजहलदिति । तच्च सुसम्भवमेव । नित्यत्वादेतन्यायेन बलवत्त्वात्प्रथममेवान्त्यस्वरस्य इकारस्य लुकि समानलोपित्वभवनात् । यत्तु पटुलघ्वादिशब्दानां पटुं लघु शुचिं रुचिं वा आख्यदिति ङपरे णौ "असमानलोपे-" ॥४।१।६३॥ इत्यादिसूत्रैः सन्वद्भावादि दृश्यते, यथा अपीपटत्, अलीलघत्, अशूशुचत्, अरूरुचदित्यादि । तद् दुःसम्भवं दृश्यते । तत्रापि "त्रन्त्यस्वरादेः" ॥७।४।४३॥ इत्यस्य नित्यत्वादेतन्यायेन बलवत्त्वादन्त्यस्वरस्य उकारेकाररूपस्य लुकि समानलोपित्वापातात् । ततोऽपीपटदित्यादौ समानलोपित्वानापातार्थं कश्चिदुपायः कृतो विलोक्यते इति विचिन्त्य सूरिभिः "नामिनोऽकलि-" ॥४३५१॥ इति वृद्धिसूत्रे कलिहलिवर्जनं कृतम् । तेन चैवं व्यवस्थापितम् । कलिहलिवर्जानां सर्वेषां पटुलघ्वादिनाम्यन्तशब्दानां णौ नित्यामप्यन्त्यस्वरादिलुचं बाधित्वा प्रथमं वृद्धिरेव क्रियते पश्चात्तु अन्त्यस्वरादिलुक् । कलिहल्योस्तु प्रथमतोऽप्येतन्यायबलप्राप्तोऽन्त्यस्वरादिलुगेव भवतु न कश्चिनिषेद्धेति । तथा च पट्वादीनां प्रथमतो वृद्धिमेव कृत्वा तदनु औकारैकाररूपान्त्यस्वरलुक्करणेन समानलोपित्वाभवनात्सन्वद्भावादिसिद्धया अपीपटदित्यादि सुखेन सिद्धम् । तदेवं पटवादीनां प्रथमतो वृद्धेरेव सम्पादनार्थं यत्कलिहलिवर्जनोपायः सूरिभिः कृतस्तदेवंकरणाभावे नित्यत्वादेतन्यायेन बलवत्त्वादन्त्यस्वरादिलुक एव सर्वत्र प्रथमत एव प्रवृत्तिं भवन्तीमाशक्य तन्निवारणार्थमेव । यदि त्वेष न्यायो नाभविष्यत्तदाऽन्त्यस्वरादिलुचो बलवत्त्वाशङ्काया अप्यभावाद् नानिष्टार्था० इति न्यायेन यथाशिष्टप्रयोगं सर्वाण्यपि रूपाण्युपायं विनाऽप्यसाधयिष्यन्त । कथम् । अचकलदित्यादीनि कलिहल्योः प्रथमत एवान्त्यस्वरादिलुक्करणेनासाधयिष्यन्त; अपीपटदित्यादीनि तु पटवादीनां प्रथमतो वृद्धि कृत्वा पश्चादन्त्यस्वरादिलुक्करणेनेति । ततश्च यदेतन्यायाशङ्कितैः सूरिभिः पवादिषु प्रथमं वृद्धेर्व्यवस्थापनार्थं कलिहलिवर्जनयत्नः कृतः स एतन्यायज्ञापक इति व्यक्तमेव ।
४०
=