________________
- १/४१]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । प्राप्तमेव तस्मिन् सति यस्यैकान्तेन प्राप्तौ सत्यामित्यर्थः, यो बाधकविधिरारभ्यते स तस्यैवैकान्तेन प्राप्तिमतो बाध्यविधेर्बाधकः स्यात् । यस्तु क्वचित् प्राप्नोति क्वचिच्च न, तस्य प्राप्त्यप्राप्तिमतो बाध्यविधेर्बाधको न स्यादित्यर्थः । प्राप्त्यप्राप्तिमतोऽपि विधेर्बाधकत्वे प्राप्तेऽयं न्यायः । यथा विद्वत्कुलं, विद्वान्, हे विद्वन् इत्यादौ तावत् सर्वत्र सस्य "सो रुः" ॥२।१।७२॥ इति रुत्वं प्राप्नोत्येव । स्वनडुत्कुलम्, अनड्वान्, हे अनड्वन् इत्यादौ च सर्वत्र हस्य "हो धुट्पदान्ते" ॥२।१८२॥ इति ढत्वं प्राप्नोत्येव । “पदस्य" ॥२॥१७९॥ इति संयोगान्तलोपस्तु विद्वान्, हे विद्वन्, अनडवान्, हे अनड्वन् इत्यादौ प्राप्नोति, नागमस्यागमनेन संयोगभवनात् । विद्वत्कुलं, स्वनडुत्कुलमित्यादौ तु न प्राप्नोति । घुटोऽभावानागमानागमनेन संयोगाभवनात् । एवं सति च रुत्वढत्वयोः, संयोगान्तलोपस्य च बाधनार्थं "स्रंसध्वंस्क्व स्सनडुहो दः" ॥२।१।६८॥ इति दत्वसूत्रं प्रारब्धम् । परं तद्दत्वसूत्रमेकान्तप्राप्तिमती रुत्वढत्वे एव बाधितुं शक्नोत्येतन्न्यायात्, न तु प्राप्त्यप्राप्तिमन्तं संयोगान्तलोपम् । तेन विद्वत्कुलम्, स्वनडुत्कुलमित्यादौ क्रमात् रुत्वं ढत्वं च बाधित्वा दत्वमेव जातम् । विद्वान्, हे विद्वन्, अनड्वान्, हे अनड्वन् इत्यादौ तु दत्वसूत्रेण संयोगान्तलोपो बाधितुं न शेके; तेन संयोगान्तलोप एवाभूत् ।।
... व्यञ्जकं त्वस्य वसः सिति विशेषणम् । तथाहि । "स्रंसध्वंस्-" ॥२।१।६८॥ इत्यनेन वसः सो दविधिस्तावद्यथा सो रुत्वं बाधते तथा संयोगान्तलोपमपि यदि बाधत एव तदा क्सः सन्तत्वं न क्वापि व्यभिचरतीति किमर्थं सिति विशेषणं क्रियते । यत्तु कृतं तज्ज्ञायते दविधिरेतन्यायात् संयोगान्तलोपं प्राप्ताप्राप्तत्वान्न बाधत इति । ततो यत्र संयोगान्तलोप: स्यात्तत्र वसोः सन्तत्वं व्यभिचरतीत्यतः सिति विशेषणं सार्थकम् । तेन च विद्वान्, हे विद्वन् इत्यादौ नकारस्य प्राप्नुवतो दविधेरभवनं सिद्धम्, यदि तु वसः सिति विशेषणं कृतं नाभविष्यत्तदा विद्वान्, हे विद्वन्, इत्यादावपि कस्वन्तत्वसद्भावादत्रापि नकारस्य दत्वं प्रासंक्ष्यदेव । अतः परमेतद्वक्षस्कारोपान्त्यन्यायावधि सर्वे बलाबलोक्तिन्याया वक्ष्यन्ते ॥ ४० ॥
____ बलवन्नित्यमनित्यात् ॥ ४१ ॥ यद्यस्मिन् कृते अकृतेऽपि च प्राप्नोति तत्तदपेक्षया नित्यम् । यत्तु अकृते प्राप्नोति न तु कृते तदनित्यम् । तयोर्युगपत्प्राप्तौ नित्यं कार्यमनित्याद्बलवदिति कोऽर्थः प्रथम प्रवर्त्तते । यथा अकादि॒त्यादौ, "धुहस्वाल्लुगनिटस्तथोः" ॥४।३७०॥ इति सिज्लुकः प्रथमं नित्यत्वात् “सिचि परस्मै समानस्याङिति" ॥४।३।४४॥ इति वृद्धिः स्यात्, पश्चाच्च हुस्वाभावान्न सिज्लुक् ।
365