________________
न्यायसङ्ग्रहस्य - न्या. सू. १/३८, ३९, ४० - तुम् । तेन भूतेऽर्थे वाच्ये ब्रह्मघातः, ब्रह्मघ्नः, ब्रह्मघातीति क्रमादण्टणिन्रूपाणि न स्युः । ब्रह्म हतवानिति क्तवतुरूपं तु स्यादेव ।
अस्य च स्थापकमीदृक्प्रयोगा एव । नश्वरता त्वस्य न स्मर्यते । एवमुत्तरन्यायत्रयस्यापि वाच्यम् ॥ ३७ ॥ यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते ॥ ३८ ॥
उपदेशः कथनं प्रवर्त्तनमित्यर्थः । यस्य सूत्रस्य यत्र प्रवर्त्तने किंचित्फलं नास्ति तत्सूत्रं तत्र बाध्यते इति कोऽर्थः न प्रवर्त्यते । लोके निष्फला अपि मेघवृष्ट्यादयो भवन्तो दृश्यन्ते, लक्षणे तु तथा निषेधार्थोऽयं न्यायः । यथा "तनित्यजियजिम्यो डद्" ( उणादि८९५) इत्यौणादिके डद्प्रत्यये; तद्, त्यद्, यद् इति शब्दाः सिद्धाः सन्ति । अत्र दस्य पुनः "धुटस्तृतीयः" ॥२।१७६॥ इति दविधिः प्राप्नोति परं निष्फल इत्यतो न क्रियते । तथा संचस्कारेत्यादौ स्कृ स्कृ इति द्वित्वे, “अघोषे शिट:'" ॥४।१।४५॥ इत्याद्यस्सटो लुकि, तस्थाने पुनः पुनः स्सट् तल्लुक् च प्राप्नुतः, परं तौ न क्रियेते, व्यर्थत्वात् ।।
अस्योन्मेषकं त्वीदृगपसिद्धिरेव । निष्फले हि कृतस्य करणे रूपाणि कदापि न सिध्येयुः, क्रियाऽनुपरमप्रसङ्गात् । एवं च यत्र वापि क्रियाऽनुपरमः प्रसज्यते तत्रैतन्यायप्रवृत्तिरिति लक्ष्यते ॥ ३८ ॥
यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते ॥ ३९ ॥
निमित्तं प्रयोजनं फलमिति यावत् । यथा तच्चारु इत्यादौ दस्य तृतीयविधिः क्रियत एव न तु बाध्यते, निमित्तसद्भावात् । तथाहि । “धुटस्तृतीयः" ॥२।१७६॥ इत्यसदधिकारविहितस्य दत्वस्य तावत् "चजः कगम्" ॥२।१८६॥ इति परकार्ये कर्त्तव्येऽसत्त्वात्तत्स्थाने "तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवगौ" ॥१३।६०॥ इति कृतं जत्वमप्य-सदभूत् । ततस्तत्स्थाने "अघोषे प्रथमोऽशिट :॥१॥३॥५०॥ इति कृतं चत्वमप्यसदभूत् । तथा च गत्वकत्वे नाभूताम् ।
अस्योज्जीवकं त्वीदृग्रूपसिद्धिरेव । तथाहि । यदि तावदयं न्यायो न स्यात्तदा दस्य दत्वाकरणे तदसत्त्वाभवनेन गत्वकत्वकरणस्य निवारयितुमशक्यत्वात् तक्चारु इत्यादिरूपं स्यान्नतु तच्चारु इत्यादि ॥ ३९ ॥
येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः ॥ ४० ॥ ____ नाप्राप्ते इत्यत्र भावे क्तस्ततो येनेति कस्तृतीया । येन विधिना नाऽप्राप्तं किन्तु
३८