________________
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
१/३६, ३७]
न्तः;
भवन्ति कचिन्न भवन्ति च । अन्ये तु समासान्तादयः षडपि स्वविषयं प्राप्य स्युरेवेति नित्या एव । तेषां षण्णामप्युदाहरणानि यथा; " इच् युद्धे" ||७|३|७४ ॥ इति इच् समासाकेशाकेशि इत्यादौ स्यादेव । १ । " स्वराच्छौ " || १ | ४ ६५ ॥ इति नागमः; कुण्डानि इत्यादौ स्यादेव । २ । स्वरसंज्ञानिर्द्दिष्टम्, 'इवर्णादेरस्वे स्वरे - " ॥ १।२।२१ ॥ इति यत्वं, दध्यत्रेत्यादौ स्यादेव । ३ । "सप्तमी चोर्ध्वमौहूर्त्तिके" || ५ | ४ | ३० ॥ इति सौत्रनिर्देशरूपज्ञापकनिर्दिष्टा उत्तरपदवृद्धिरूर्ध्वमौहूर्त्तिकशब्दे स्यादेव । ४ । " अजादे: ' ॥२|४|१६॥ इति सूत्रे अजादिगणनिर्दिष्ट आप्, अजा इत्यादौ स्यादेव । ५ । " अनवर्णा नामी " ॥१॥१॥ ६ ॥ इति सूत्रे नामिसंज्ञायामवर्णवर्जनं नञ्निर्द्दिष्टमपि नियतमेवेति । ६ । ।। ३५ ॥
पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् ॥ ३६ ॥
"
पूर्वमुक्तानि बाधकसूत्राणि वक्ष्यमाणबाध्यमध्ये ऽनन्तरान् विधीन् प्रतिषेधन्ति न तु व्यवहितान् । व्यवहितानामपि प्रतिषेधकत्वे प्राप्तेऽयं न्याय: । यथा " श्लिषः ' ||३|४|५६ ॥ इति सक् अनन्तरं पुष्याद्यडं बाधते, न तु व्यवहितं भावकर्म्मञिचम् । तेन आश्लिक्षकन्यां चैत्रः; अत्राङ् न स्यात् । आश्लेषि कन्या चैत्रेणेत्यत्र तु ञिच् स्यादेव ।
उल्लासकं त्वस्य सक् अङ्ञिच् सूत्राणामेवमुपन्यासक्रम एव । तथाहि । अङ्ञिचोरपवादस्तावत्सक् तत्राप्यङ्बाधितुमिष्टो न तु ञिच् । तथा चाङ्सूत्रादनु सक्सूत्रं चेत् क्रियते तदा बाध्योक्तेरनु बाधकोक्तिरिति न्यायानपेतः समर्थपक्ष आदृतः स्यात् । अनिष्टो ञिच्बाधोऽपि च मध्येऽपवादाः पूर्वान्० इति न्यायबलाट्टलति । एवं सत्यपि यद् बाधको - तेरनु बाध्योक्तिरिति असमर्थपक्ष आदृतस्तदेतन्यायादेवेष्टसिद्धिर्भविष्यतीत्याशयैव ।
अयं चाप्रतिष्ठस्तेन " संयोगात् ॥ २१ ॥ ५२ ॥ इतीयादेशः शिश्रियुरित्यादौ, 'योऽनेकस्वरस्य" ॥२।१।५६ ॥ इत्यनन्तरसूत्रविहितं यत्वं यथा बाधते; तथा यवक्रियावित्यादौ "क्विब्वृत्तेरसुधियस्तौ " ॥ २।१।५८ ॥ इति व्यवहितेनापि सूत्रेण विहितं यत्वं बाधते ॥ ३६ ॥
मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् ॥ ३७ ॥
वर्त्तमाना इति शेषः । उक्तवक्ष्यमाणबाध्यमध्ये वर्त्तमानानि बाधकसूत्राणि प्राग्विधीन् बाधन्ते न तूत्तरान् । उत्तरेषामपि प्रतिषेधकत्वे प्राप्तेऽयं न्याय: । यथा । “ब्रह्मभ्रूणवृत्रात् क्विप्" ॥५।१ । १६१ ।। इत्यनेन भूतकाले विहितः क्विप् ब्रह्महा इत्यादौ प्रागुक्तान् “कर्मणोऽण्” ॥५॥१॥७२॥ इत्यणं, "ब्रह्मादिभ्यः " || ५ | १|८५ ॥ इति टकं, "हनो णिन् " ॥५।१।१६०॥ इति णिनं च बाधते; न तु वक्ष्यमाणं " क्तक्तवतू" ॥५।१।१७४॥ इति क्तव
39