________________
न्यायसङ्ग्रहस्य
[ न्या. सू. १/३५
॥६।३।१४८॥ इति सूत्रोक्ते शिक्षादिगणे ऋगयनमिति नान्तपाठरूपाज्ज्ञापकादपि सिद्धयति । परं ज्ञापकनिर्दिष्टस्य णत्वनिषेधस्य एतन्यायादनित्यत्वं स्यात्तच्च नेष्टमित्यतस्तस्य नित्यत्त्वार्थमग इत्युक्तम् । अस्यांशस्योदाहरणं सौत्रनिर्देशरूपज्ञापकनिर्दिष्टापेक्षया दर्शितम् । ज्ञापकं तु गणपाठरूपज्ञापकनिर्दिष्टापेक्षया दर्शितम् ॥ ४ ॥
५. गणनिर्दिष्टं यथा । कुटिता, कुटितुं इत्यादौ "कुटादेङिद्वदञ्णित्" ॥४।३।१७॥ इति कुटादिगणनिर्दिष्टं ङित्त्वं प्रत्ययस्य जातमित्यतो धातोर्न गुणः । तस्यैवानित्यत्वं यथा । व्यचत् व्याजीकरणे, अस्य थवि, विव्यचिथ; अत्र द्वित्वे पूर्वस्य " ज्याव्येव्यधिव्यचिव्यथेरिः" ॥४१॥७१॥ इति इत्वे, "कुटादेङिद्वदञ्णित्" ॥४।३।१७॥ इति गणनिर्दिष्टत्वेन ङित्त्वस्यानित्यत्वात्थवो ङित्त्वाभवनेन धातोर्यस्य "व्यचोऽनसि" ॥४॥१८२॥ इति य्वृन्न । ततश्च विविचिथेति न स्यात् ।
समर्थकं त्वत्र वृन्निषेधार्थ यत्नाकरणम् ॥ ५ ॥
६. ननिर्दिष्टं यथा । क्रुङ् उ आस्ते, क्रुङ्ङ् वास्ते, किम् उ आवपनं किम्वावपनं; अत्र वस्य " अञ्वर्गात्स्वरे वोऽसन्" ॥१॥२॥४०॥ इत्यसत्त्वात्स्वरे परे ङस्य “हुस्वान् ङणनो द्वे” ॥१॥३॥२७॥ इति द्वे रूपे जाते, मस्य तु पुरो व्यञ्जनाभावात् “तौ मुम - " ॥१॥३॥१४॥ इत्यनेनानुस्वारानुनासिकौ नाभूताम् । असद्भावस्य ननिर्दिष्टत्वेनानित्यत्वात्तु तद् उ अस्य मतं, तद्व्वस्य मतमित्यादौ " ततोऽस्याः " || १ | ३ | ३४ ॥ इति वस्य द्वित्वम् ।
उन्मीलकं त्वत्र “व्याप्तौ स्सात्" ॥७।२।१३० ॥ इति द्वितीयः सः । अयं ह्यग्निसादित्यादौ षत्वनिषेधज्ञापनार्थः । एतन्न्यायांशाभावे चाऽत्र षत्वस्य प्राप्तिरेव नास्ति; सस्य “वृत्त्यन्तोऽसषे” ॥१| १ | २५ ॥ इति सूत्रेण पदादित्वात् । तथाहि । " वृत्त्यन्तोऽसषे ' ॥१।१।२५॥ इत्यस्य तावदमयर्थः । वृत्त्यन्तः पदसंज्ञो न स्यात् । अस । सस्य षत्वे कर्त्तव्ये तु पदसंज्ञो न स्यादिति न; किन्त्वप्राप्ताऽपि पदसंज्ञा तस्य स्यादेवेति प्रत्युत विधिः । ततः स्सातः प्रत्ययत्वादप्राप्तमपि पदत्वमसषे इत्यंशेन विहितम् । ततश्च सस्य पदादित्वात् षत्वप्राप्तिरेव नास्ति "नाम्यन्तस्था - ' ॥ २।३।१५॥ इति सूत्रेण पदमध्यस्थस्यैव संस्य षत्वविधानादिति कुतस्तन्निषेधज्ञापनाय द्विसकारपाठं कुर्यात् । केवलमसषे इति नञ्निर्द्दिष्टः पदत्वविधिरनित्यस्तेन कदाचित् स्सातः पदत्वाभवने सः पदादिर्न स्यादपि । ततश्च यदा पदादिर्न स्यात्तदा सस्य पदमध्यस्थत्वसम्भवात् षत्वस्य प्राप्तौ तन्निषेधज्ञापनार्थं द्विसकारपाठः कृतस्तदेवमिमं न्यायांशं विनाऽनुपद्यमानां षत्वप्राप्तिं विनाऽनुपपद्यमानः षत्वनिषेधज्ञापनार्थो द्विसकारपाठ इमं न्यायांशमुन्मीलयति ॥ ६ ॥
11
अदृढश्चायं न्यायस्तेन केचिदेव समासान्तादया अनित्यत्वाद्यथाप्रयोगदर्शनं क्वचिद्
३६