________________
- १/३५]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । समासान्तानित्यत्वस्य सूचकं तु "ऋक्पूःपथ्यपोऽत्" ॥७।६।७६॥ इति निर्देश एव । अत्समासान्ते जाते हि पथ्यपाददिति निर्दिश्येत ॥ १ ॥
२. आगमो यथा । पट्टा, पटिता; अत्र पटे: सेट्त्वात् नित्यं प्राप्तोऽपि वेट् । पक्ता, पचिता; आस्कन्तव्यम्, आस्कन्दितव्यमित्यत्र पचिस्कन्धोरनुस्वारेत्त्वादनिट्त्वेऽपि वेट् । तथा धावेरूदित्त्वाद्वेट्त्वेऽपि गतौ क्तयोनित्यमिट; धावितः, धावितवान् । शुद्धौ तु नेट्; धौतः, धौतवान् । तथा जभेस्तिवि जम्भतीत्यत्र "जभः स्वरे" ॥४।४।१००॥ इति नांगमः । जञ्जभीतीत्यत्र तु न, अनित्यत्वात् । तथा कमेणिङि आनशि मागमे, कामयमानः । मागमस्यानित्यत्वादभवने कामयान इत्यपि ।
आगमानित्यत्वस्य सूचाचणं त्विड्नागममागमविकल्पनादियत्नाकरणम् । तथाहि । पट्टा पटितेत्यादिप्रयोगेष्विडागमादीनां विकल्पादि दृश्यते । यच्चैतेषामर्थे विकल्पादिसूत्रं किमपि न कृतं तदेतन्यायाशयैव । एतदनुसारेणाग्रेऽपि यत्नाकरणं तस्य ज्ञापकत्वं च भाव्ये ॥ २ ॥
३. संज्ञानिर्दिष्टं यथा । चकासामासेत्यादौ परोक्षेति संज्ञानिर्दिष्टो "धातोरनेकस्वरात्" ॥३।४।४६॥ इत्याम् । अनित्यत्वाच्च ददरिद्रौ इत्यत्र परोक्षेति संज्ञानिर्दिष्टत्वात् "धातोरनेकस्वरात्-" ॥३।४।४६॥ इत्याम् प्राप्तोऽपि न स्यात् ।
एतत्सूचाचञ्चु तु "आतो णव औः" ॥४।२।१२०॥ इत्यत्र ओकारेणैव पपा· वित्यादिप्रयोगसिद्धावपि औविधानम् । तद्धि ददरिद्रावित्यस्य सिद्धयर्थं कृतम् । अन्यथा
"अशित्यस्सन्णकच्णकानटि" ॥४॥३७७॥ इत्याकारलोपे ददरिद्रो इति प्राप्तेः । यदि च दरिद्रातर्णव आम् एकान्तिकः स्यात्तदा दरिद्राञ्चकारेत्येव भवनादौत्वस्यानवकाशत्वादौत्वं नाकरिष्यदेव । यत्तु कृतं तदामादेशस्य संज्ञानिर्दिष्टविधित्वेनानित्यत्वाद्यदा औत्वस्यावकाशः सम्भवी तदा ओत्वविधाने ददरिद्रो इति मा भूत् 'किन्तु' ददरिद्रौ इत्येव भवतादित्येवमर्थमेव । तदेवमिमं न्यायांशं विनाऽनुपपद्यमानमौत्वस्यावकाशसम्भवमन्तरेणानुपपद्यमानमौत्वविधानमिमं न्यायांशं सूचयति ॥ ३ ॥
४. ज्ञापकं सौत्रनिर्देशगणपाठादि । तन्निर्दिष्टं यथा । “दशैकादशादिकश्च" ॥६॥४॥३६॥ इति सौत्रनिर्देशेन दशैकादशेति शब्दस्यादन्तत्वसिद्धया दशैकादशान् गृह्णातीति स्यात् । सौत्रनिर्देशसिद्धस्यादन्तत्वस्य एतन्न्यायेनानित्यत्वाच्च दशैकादश गृह्णातीत्यप्यबाधितमेव ।
सूचाचतुरं त्वस्य "पूर्वपदस्थान्नाम्न्यगः ॥२।३।६४॥ इत्यत्राग इति । तथाहि । ऋगयनमित्यत्र णत्वनिषेधार्थं तावदग इत्युक्तम् । णत्वनिषेधश्च "शिक्षादेश्चाण"
(૩૫