________________
न्यायसङ्ग्रहस्य -
[न्या. सू. १/३५ - "अनार्षे वृद्धेऽणिजो बहुस्वरगुरूपान्त्यस्यान्तस्य ष्यः" ॥२।४७८॥ इत्यनेनाणः ध्यादेशे, "आत्" ॥२।४।१८॥ इति आपि, कारीषगन्ध्या; तस्याः पुत्रः कारीषगन्धीपुत्र इत्यादौ ष्याया ईचादेशविधायके "ष्या पुत्रपत्योः केवलयोरीच् तत्पुरुषे" ॥२।४।८३॥ इति सूत्रे ष्यायाः स्थानित्वाद् "भिस ऐस्" ॥१।४।२॥ इत्यादिवत् ष्याया ईचिति भेदनिर्देशे युक्तेऽपि ष्या इत्यस्य सम्पूर्णस्य ईच्प आदेशः स्यादित्येवमीचः सर्वादेशत्वार्थं ध्यैव ईच् स्यादित्यभेदनिर्देशस्तथाहि । यद्यनुबन्धेनानेकवर्णत्वं स्यात्तदा ईचोऽनेकवर्णत्वात् ष्याया ईच् इति भेदनिर्देशेऽपि "अनेकवर्णः सर्वस्य" ॥७।४।१०७॥ इति परिभाषया ईचः सर्वादेशत्वं सिद्धयत्येवेति कुतस्तदर्थमभेदनिर्देशं कुर्यात् । यत्तु कृतस्तदनुबन्धवशादनेकवर्णत्वं न स्यादित्यत एव । "
आद्यांशे चायं स्याद्वादी, तेन पिताकृत्वा गत इत्यत्र पितृशब्दात् "ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डाः" ॥११४८४॥ इत्यनेन यः सेर्डाः कृतः, यश्च द्वितीयांकृत्य क्षेत्रं. गत इत्यत्र तीयान्तात् "तीयशम्बबीजात्कृगा कृषौ डाच्" ॥७।२।१३५॥ इत्यनेन डान्प्रत्यय आनीतस्तयोर्डाडाचोरनुबन्धापेक्षयाऽसरूपत्वं जातमेव । तत एव पिताकृत्वेत्यादौ डा इत्येतदन्तस्य "ऊर्याद्यनुकरणच्विडाचश्च गतिः" ॥३॥१२॥ इति प्राप्ताया गतिसंज्ञाया अभवनाद् "गतिक्क न्यस्तत्पुरुषः" ॥३।१।४२॥ इति समासाभवनेन पूर्वोत्तरपदव्यवस्थाया अभावात् "अनञः क्त्वो यप्" ॥३।२।१५४॥ इति क्त्वो यबादेशो नामूत् । द्वितीयाकृत्येत्यादौ तु डाजन्तस्य "ऊर्यादि-" ॥३॥१२॥ इति गतिसंज्ञाभवनात् "गतिक्वन्य-" ॥३।१।४२॥ इति समासे जाते, पूर्वोत्तरपदव्यवस्थाभवनाद् "अनञः क्त्व:-" ॥३।२।१५४॥ इति क्त्वो यबादेशोऽभूदेव । शेषांशयोस्तु स्याद्वादिता नाविरस्ति ॥ ३४ ॥
समासान्तागमसंज्ञाज्ञापकगणननिर्दिष्टान्यनित्यानि ॥ ३५ ॥
यथाप्रयोगदर्शनं क्वचिदिति शेषः । १. समासान्तः, २. आगमः, ३. संज्ञानिर्दिष्टं, ४. ज्ञापकनिर्दिष्टं, ५. गणनिर्दिष्टं, ६. ननिर्दिष्टं च कार्यमित्येतानि षड् यथाप्रयोगदर्शनमनित्यान्यनियतानि । व्याकरणसूत्रैर्विहितान्यपि क्वचिन्न स्युरपि व चिच्च यथा व्याकरणसूत्रैर्विहितानि तथैव न स्युः; किन्त्वन्यथापि स्युरित्यर्थः । सर्व वाक्यं सावधारणम् इति न्यायात्समासान्तादीनां नित्यत्व एव प्राप्ते तन्निषेधार्थोऽयं न्यायः ।।
१. तत्र समासान्तो यथा । ब्रह्वय आपो यस्मिन् तद् बह्वपं सरः; अत्र "ऋक्पूःपथ्यपोऽत्" ॥७॥३७६॥ इत्यत् समासान्तः । अनित्यत्वाच्च बह्वय आपो येषु सरस्सु तानि बह्वाम्पि, बह्वम्पि, इत्यादौ "ऋक्पू:-" ॥ ७।३७६ ॥ इत्यत् समासान्तः प्राप्तोऽपि न स्यात् ।
=
3४