________________
१/३४]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
॥५।१।१ ॥ इत्यतः प्रारब्धे कृत्प्रत्ययाधिकारे क्तेः प्राग् ये प्रत्यया वक्ष्यन्ते तेष्वपवादप्रत्ययस्य विषये उत्सर्गप्रत्यय एकान्ततो बाध्यते न, किन्तु विकल्पेन स्यादेव; यदि सोऽपवादप्रत्ययेन सहासदृशरूपः स्यादिति । यदि पुनरुत्सर्गप्रत्ययो ऽपवादप्रत्ययेन सह सदृशरूपः स्यात्तदा सोऽपवादप्रत्ययेन बाध्यत एवेति च सामर्थ्याल्लभ्यते । इह चाण् उत्सर्गो डश्चापवादस्ततो डविषये अणप्यभविष्यद् यदि अनुबन्धकृतमसदृशरूपत्वमण्डयोरभविष्यत्, तत्तु नास्तीत्यतो डेनाण् बाधित एवेति ।
विस्तारकं त्वत्र “कृवृषिमृजिशंसिगुहिदुहिजपो वा " ॥५।१।४२ ॥ इत्यनेन क्यपो विकल्पनम् । तद्धि पक्षे "ऋवर्णव्यञ्जनाद् घ्यण्" ॥५।१।१७ ॥ इत्यौत्सर्गिकघ्यणर्थम् । स च घ्यण् एतन्न्यायाभावेऽनुबन्धेन क्यपोऽसरूपत्वात् " असरूपोऽपवादे - " ॥५॥१॥१६॥ इत्यनेन सिद्ध एवेति कुतः पक्षे घ्यर्णर्थं क्यविकल्पनं कुर्यात् यत्तु कृतं तदेतन्न्यायाद् घ्यण्क्यपोरसांरूप्यं नास्तीत्यतोऽपवादेन क्यपा घ्यण् बाधिष्यते तथा च घ्यण् नायास्यति; ततश्च विकल्पोक्तिः क्रियते यथा पक्षे घ्यणप्यायातीति बुद्धयैव ॥
२. अनेकस्वरत्वं यथा । डुपचष् इतिधातुपाठे पठितस्यापि पच्धातोरनुबन्धवशादनेकस्वरत्वाभावात्पपाचेत्यत्र परोक्षाया " धातोरनेकस्वरात्- '' ॥३।४।४६॥ इत्याम्
न ।
स्मारकं त्वत्र ‘“निन्दहिंसक्लिशखादविनाशिव्याभाषासूयानेकस्वरात्" ॥५॥२: ६८ ॥ इति सूत्रे निन्दादिग्रहणम् । यदि ह्यनुबन्धेनानेकस्वरत्वं स्यात्तदा निन्दादयः सर्वेऽप्यनेकस्वरा एव; णिदु कुत्सायां हिसु हिंसायामित्यादिरीत्या धातुपाठे पाठात् । ततश्चानेकस्वरग्रहणेनैव गृहीतत्वान्न ते पृथगच्येरन् । यत्तूक्तास्तज्ज्ञायते अनुबन्धवशेनानेकस्वरत्वा'भवनान्निन्दादय एकस्वरा एवेति ॥
"
३. अनेकवर्णत्वं यथा । अनुबन्धवशादनेकवर्णत्वाभावात् “वन्यापञ्चमस्य " ॥४।२।६५॥ इत्याङादेशस्य ङित्त्वेन वर्णद्वयभवनेऽप्यनेकवर्णत्वाभावाद् घुणि भ्रमणे, वन भक्तावित्याभ्यां " मन्वन्क निविच्क्क चित्" ॥५।१।१४७।। इत्यनेन वनि घ्वावा, वावा इत्यत्र " षष्ठ्याऽन्त्यस्य " ॥ ७|४|१०६ ॥ इति परिभाषया पञ्चममात्रस्यैव आङादेशो न तु " अनेकवर्णः सर्वस्य ||७|४|१०७ ॥ इति परिभाषया पञ्चमान्तस्य सर्वस्य धातोः । यदि त्वाङो ऽनेकवर्णत्वमभविष्यत्तदा "अनेकवर्णः सर्वस्य ||७|४|१०७ ॥ इति वचनादखण्डस्य धातोरयमादेशोऽभविष्यत् ।
""
ज्ञापकं त्वत्र करीषस्येव गन्धोऽस्य "वोपमानात् " || ७|३|१४७॥ इति इसमा'सान्ते, करीषगन्धिः कश्चित्तस्यापत्यं पौत्रादि स्त्री "ङसोऽपत्ये " || ६ | १|२८ ॥ इत्यणि, "वृद्धिः स्वरेष्वादेः - " ॥७४॥१॥ इति वृद्धौ, 'अवर्णेवर्णस्य" ॥७।४।६८ ॥ इति इलोपे,
33