________________
न्यायसङ्ग्रहस्य - [न्या. सू. १/३३, ३४ - यप्रत्ययं टितमिच्छन्ति तन्मतेऽपि धुर्य इत्यत्र दीर्घत्वनिषेधो "न यि तद्धिते" ॥२।१६५॥ इत्यनेनैव स्यादित्यतः सानुबन्धेऽपि यप्रत्यये "न यि तद्धिते" ॥२।१।६५॥ इत्यस्य प्रवृत्तिः स्फुटैव; टित्त्वस्य किं फलमिति चेत् । उच्यते । स्त्रीत्वविवक्षायां धुर्यशब्दस्थयप्रत्ययस्य टित्त्वात् ङ्यां "न यि-". ॥२१॥६५॥ इति दीर्घनिषेधे ततो "व्यञ्जनात्तद्धितस्य" ॥२।४।८८॥ इति यलोपे धुरी इतिप्रयोगस्तन्मते फलं, तदपि च मतं सूरेः सम्मतमेव ।
अदृढश्चायम् । निरनुबन्धग्रहणे सामान्येन ग्रहणम् इत्यपिन्यायसद्भावात् ॥३२॥ ___ एकानुबन्धग्रहणे न द्वयनुबन्धकस्य ॥ ३३ ॥
सूत्रोक्तस्यैकानुबन्धस्य शब्दस्य ग्रहणे सम्भवति सति तत्सूत्रकार्यं द्वयनुबन्धकस्योपलक्षणत्वात् त्र्याद्यनुबन्धकस्य च न स्यात् । सूत्रोक्त एकानुबन्धे शब्दे योऽनुबन्धोऽस्ति तस्यानुबन्धस्य द्याद्यनुबन्धकेऽपि सद्भावात् द्वयाद्यनुबन्धकस्यापि ग्रहणे प्राप्ते प्रतिषेधार्थोऽयं न्यायः । यथा “य्यक्ये" ॥१।२।२५॥ इत्यत्र एकानुबन्धस्य क्यस्य वर्जनाद् द्वयनुबन्धके क्यनि क्यङि चावावौ स्यातामेव । यथा गव्यति, गव्यते, नाव्यति, नाव्यते ।
प्रपञ्चकं चास्य "दीर्घश्च्वियङ्यक्क्येषु च" ॥४।३।१०८॥ इत्यत्र क्येष्विति बहुवचनम् । इदं हि क्यक्यन्क्यक्ष्क्यङामविशेषेण ग्रहणार्थं न्यस्तम् । यदि चायं न्यायो न स्यात्तदा जातिविवक्षायामेकवचनेनापि सर्वेषां ग्रहणं सिद्धयतीति किमर्थं बहुवचनयत्नः क्रियेत । यत्तु कृतस्तदेतन्न्यायाशङ्कयैव ।
___ अस्य चाविसम्भात् “आपो ङितां यै यास् यास् याम्" ॥१।४।१७॥ इत्यत्र आप इव डापोऽपि ग्रहः; तेन मालायै इत्यत्रवत् सीमन्शब्दात् "ताभ्यां वाऽऽप् डित्" ॥२।४।१५॥ इति डापि सीमायै इत्यत्रापि “आपो ङिताम्" ॥१।४।१७॥ इत्यनेन यैः सिद्धः ॥३३॥
नानुबन्धकृतान्यसारूप्यानेकस्वरत्वानेकवर्णत्वानि ॥ ३४ ॥
असारूप्यं मिथोविसदृशरूपत्वं, तदनेकस्वरत्वमनेकवर्णत्वं चानुबन्धवशान्न स्युः । लक्षणे क्वचिदपि निषिद्धत्वाभावात्प्राप्तानामसारूप्यादीनां प्रतिषेधार्थोऽयं न्यायः ।
१. तत्रासारूप्यं यथा । अणो डेनासरूपत्वं नास्तीत्यतो गोद इत्यत्र "आतो डोऽह्वावामः" ॥५।१७६॥ इति डविषये "कर्मणोऽण्" ।।५।१७२॥ इत्यण् "असरूपोऽपवादे वोत्सर्गः प्राक् क्तेः" ॥५।१।१६॥ इत्यनेनाननुमतत्वान्न स्यात् । अणि हि गोदाय इत्यनिष्टं रूपं स्यात् । अयं भावः । अपवादप्रत्ययेनोत्सर्गप्रत्ययस्यैकान्तेन बाधे प्राप्ते तावत् "असरूपोऽपवादे-'" ॥५।१।१६॥ इति सूत्रं कृतम् । अस्यार्थः । “आ तुमोऽत्यादिः कृत्"
૩૨.