________________
१/३१, ३२]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
तरस्याभावे इतरदपि निवर्त्तत इति प्रसक्ते सति गौणस्य निवृत्तौ मुख्यस्य निवृत्तिरिति पक्षस्योत्तरेण निषेत्स्यमानत्वादस्य अनैयत्यम् ॥ ३० ॥
नान्वाचीयमाननिवृत्तौ प्रधानस्य ॥ ३१ ॥
अनु पश्चादप्राधान्येनेत्यर्थः । आचीयमानस्य मील्यमानस्य कार्यस्याभावे प्राधान्येन विहितस्य कार्यस्याभावो न स्यात् । किन्तु मुख्यस्याभावे गौणस्याप्यभाव इत्येव स्यात् । पूर्वेण यदृच्छायां प्राप्तायां नियमार्थोऽयं न्याय: । यथा बुद्धीः, धेनूः; अत्र पुंस्त्वाभावात् " शसोऽता " ॥ १।४।४९ ॥ इत्यनेन शसः सस्य नत्वाभावेऽपि प्रधानतयोक्तो दीर्घः स्यादेव । उद्घोषकं त्वस्य "शसोऽता सश्च - " ॥ १।४।४९ ॥ इति सूत्रे नत्वविधेः सश्च न इत्यन्वाचयार्थेन चेन निर्देशः । यतो गौणत्वेन समुच्चयस्तावदन्वाचय उच्यते । गौणत्वस्य चैतावानेव विशेषो यद्रौणस्य निवृत्तौ मुख्यं न निवर्त्तत इति ।
अनियमस्त्वस्य न प्रतिभासते ॥ ३१ ॥
निरनुबन्धग्रहणे न सानुबन्धकस्य ॥ ३२ ॥
कार्यं स्यादितीहोत्तरत्र च शेषः । निरनुबन्धं कञ्चन शब्दं सूत्रे उच्चार्य यत्कार्यं विहितं तत्कार्यं तस्य शब्दस्य निरनुबन्धस्य ग्रहणे सम्भवति सति सानुबन्धकस्य न स्यात् । अविशेषोक्त्योभयोर्ग्रहणे प्राप्ते तदपवादो ऽयं न्याय: । यथा " येऽवर्णे " ॥३॥२॥१००॥ इत्यत्र “ तस्मै हिते " || ७|१|३५ ॥ इत्यादिविहिते निरनुबन्ध एव यप्रत्यये नासिकाया नसादेशः स्याद्यथा नासिकायै हितं नस्यं घृतम् । सानुबन्धे तु यप्रत्यये ञ्यादिरूपे न स्यात्, यथा नासिकाऽत्रास्ति " सुपन्थ्यादेः " ॥६।२८४ ॥ इति नासिक्यं नगरम् ।
पोषकं त्वस्य 'न यि तद्धिते " |२| १ | ६५ ॥ इत्यत्र ये इत्यकरणम् । तथाहि । य् इति व्यञ्जनमात्रोपादाने तावत्तादृशस्य कस्यापि प्रत्ययस्यासम्भवादेतन्यायाप्रवृत्तेर्निरनुबन्धसानुबन्धयोर्ग्रहणं कर्त्तुं शक्यते । अकारसहितयोपादाने तु तादृशस्य निरनुबन्धयप्रत्ययस्य सम्भवात्सानुबन्धस्य यादेः प्रत्ययस्य ग्रहणमेतन्यायात्कर्तुं न शक्यते । अत एतन्यायारेकया सानुबन्धस्यापि यस्य ग्रहणार्थं ये इति न कृतम् ।
ननु सानुबन्धे प्रत्यये " न यि तद्धिते " || २ | १ | ६५ ॥ इत्यस्य प्रवृत्तिरेव क्वास्ति । यदर्थं तत्र ये इत्यनिर्दिश्य यीति निर्दिष्टम् । उच्यते । धुरं वहतीति "धुरो यैयण्" ॥७|१|३॥ इति यप्रत्यये धुर्य इत्यत्र " भ्वादेर्नामिन- " || २|१| ६३ ॥ इति प्राप्तस्य दीर्घत्वस्य निषेधस्तावत् " न यि तद्धिते " || २|१|६५ ॥ इत्यनेन क्रियते । केचिच्च धुर्यशब्दस्थं
૩૧