________________
न्यायसङ्ग्रहस्य
[न्या. सू. १/३० वद्भावः प्रतिषिद्ध इति सर्वं सार्थकम् । तदेवमिमं न्यायं विनाऽनुपपद्यमानामकारप्रत्यावृत्तिं विनाऽनुपपद्यमाना स्थानिवद्भावनिषेधोक्तिरेतन्यायज्ञापिका ।
"1
अनियतश्चायम् । तेन मुनीनामित्यादौ " दीर्घो नाम्यतिसृचतसृष्रः " ॥१॥४॥४७॥ इति दीर्घे कृते ह्रस्वस्य नाशेऽपि ह्रस्वजो नाम् न नष्टः । अनियतताज्ञप्तिश्चास्य "हद - स्वरस्यानु नवा ॥१॥३॥३१॥ इति सूत्रे अनुग्रहणात् । तथाहि । अन्वित्यस्याभावे किल प्रोर्णुनावेत्यत्र प्रथममन्तरङ्गत्वादूनुधातोर्नस्य द्वैरूप्ये कृते पश्चात्परोक्षाहेतुकत्वेन बहिरङ्गं द्विर्वचनं स्यात्तथाच प्रोर्णुन्नावेत्यनिष्टं रूपं स्यादित्यतोऽनुग्रहणं कृतम् । यदि चायं न्यायो नियत एव स्यात्तदा रेफानन्तर्यजं नस्य द्वैरूप्यं कृतमपि द्विर्वचनकरणे रेफस्य णुव्यवधानभवनेन एतन्यायान्निवर्त्तत एवेति कुतोऽनिष्टरूपापत्तिभियाऽनुग्रहणं कुर्यात् ॥ २९ ॥
सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः ॥ ३० ॥
सम् समीचीनं नि नितरां योजनं सन्नियोगः सहोक्तिरित्यर्थः । शिष्टान्युक्तानि । अपायोse भावः । यत्र सन्नियोगेन द्वे कार्ये उक्ते स्यातां तत्रैकस्य कार्यस्याभावेऽपरमपि कार्यं न भवति । लोके युग्मजभ्रात्रादीनामेकस्याभावे इतरस्य भावोऽपि दृश्यते, लक्षणे तु तथा निषेधार्थोऽयं न्यायः । अभवनं च द्विधा । भूत्वा निवर्त्तनं, मूलतोऽप्यभवनं च । तत्राद्यं यथा । पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः; अत्र "देवता" ॥६।२।१०१ ॥ इत्यणि, "द्विगोरनपत्ये यस्वरादेर्लुबद्विः " || ६ | १|२४|| इति तल्लुपि " ङयादेर्गौणस्य- " ॥२।४।९५॥ इति ङीनिवृत्तौ " वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः " || २|४| ६२॥ इत्यनेन ङीसन्नियोगशिष्ट आनपि निवृत्तः । द्वितीयं यथा । एतान् गाः पश्येत्यत्र गोरोतः शसोऽता सह ‘“आ अम्शसोऽता " ॥ १।४।७५ ॥ इत्यात्वे कृते शसोऽकारस्याभावात्, "शसोऽता सश्चनः पुंसि" ॥१।४।४९ ॥ इति दीर्घस्याभवनात्तेनैव सूत्रेण दीर्घसन्नियोगे उक्तं नत्वमपि नाभूत् ।
उद्योतकं त्वस्य आन्निवर्त्तनाय नत्वनिषेधाय च यत्नाकरणम् । तथाहि । पञ्चेन्द्र इत्यत्र तावद् ड्य इव आनोऽपि निवृत्तिर्दृश्यते । न च आनो निवृत्तिः क्वापि सूत्रे विहिता, ततो ज्ञायते ङीनिवृत्तावेतन्यायबलात्साऽपि जातेति । तथा एतान् गा इत्यत्र गोशब्दस्य ‘“शसोऽता सश्च ॥ १।४।४९ ॥ इत्यनेन दीर्घो यन्नाभूत्तत्र हेतुर्दृश्यते । " आ अम्शसोऽता" ॥१।४।७५ ॥ इत्यात्वे कृते सति शसोऽकारो नास्ति येन सह दीर्घः क्रियते इत्येवं रूपः । नत्वाऽभवनस्य तु हेतुः कोऽपि न दृश्यते प्रत्युत तद्भवनस्यैव हेतुर्दृश्यते पुल्लिङ्गत्वस्य सद्भावात् । तत एकान्तप्राप्तमपि नत्वं निषेद्धुं यद्यत्त्रो न कृंतस्तज्ज्ञायते दीर्घस्याभवने एतन्यायबलान्नत्वमपि न भावीत्याशयैव । अनेन च न्यायेन यदृच्छयाऽन्य
30