________________
- १/२९]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । नृनाथ इत्यादौ ।
अस्या अनिर्णीतेश्च "शिरोऽधसः पदे समासैक्ये" ॥२।३।४॥ इति सूत्रे ऐक्यशब्दप्रयोगस्तथाहि । अत्र तावत्समासे इत्येकवचनेनाप्युक्तमेवैक्यम्; यथा "वौष्ठौतौ समासे" ॥१।२।१७॥ इत्यत्र । तथाऽप्यैक्यशब्दप्रयोगो यः स एतन्यायानिर्णीतित्वादेव । अत एवानेनैक्यशब्दप्रयोगेण तत्र विचित्रा सूत्राणां कृतिरिति न्यायः सूचितोऽस्तीत्युक्तम् । यत एतदेवात्र वैचित्र्यं, यदुक्तार्थानामपि प्रयोगः ॥ २८ ॥
निमित्ताभावे नैमित्तिकस्याप्यभावः ॥ २९ ॥ निमित्तेन चरतीति वाक्ये "चरति" ॥६।४।११। इत्यनेनेकणि नैमित्तिकम् । निमित्तस्य निवृत्तौ नैमित्तिकं, तज्जातं कार्यमपि निवर्त्तते । लोके कुम्भकारविनाशेऽपि घटस्य दर्शनात्कारणनिवृत्तौ कार्यनिवृत्तेरभावेऽपि व्याकरणे तद्भावख्यापनार्थोऽयं न्यायः । यथा बिम्बशब्दाद्वल्लिविशेषनामत्वविवक्षायां स्त्रीत्वे गौरादित्वाद् ङयाम्, "अस्य ङयां लुक्" ॥२।४।८६॥ इति बिम्बाकारलुकि च; बिम्बी । तदनु बिम्ब्याः फलं बिम्बम् अत्र हेमादित्वादञि, "फले" ॥६।२।५८॥ इति तल्लुपि, "यादेौणस्याक्ति पस्तद्धितलुक्यगोणीसूच्योः " ॥२।४।९५॥ इति निवृत्तौ "अस्य यां लुक्" ॥२।४।८६॥ इति ङीजाताया अल्लुकोऽपि निवृत्त्या अकारः प्रत्यावृत्तः ।। .:. उद्दीपकं त्वस्य बिम्बमित्यादिसिद्ध्यर्थं "न सन्धि-" ॥७।४।१११॥ इति सूत्रे ङीलुकोऽल्लुकि कार्ये स्थानिवद्भावनिषेधोक्तिस्तथाहि । “न सन्धि-" ॥७।४।१११॥ इति सूत्रवृत्तौ तावद् डीविधौ कर्त्तव्ये स्वरस्यादेशः स्थानिवन्न भवति, इत्यंशस्योदाहरणं बिम्ब'मिति दर्शितम् । कथं ? बिम्ब्याः फलं; हेमादित्वादञि, “फले" ॥६।२।५८॥ इति तल्लुपि, "यादेगौणस्य-" ॥२।४।९५॥ इति ङीलुक् । अयं ङीरूपस्य स्वरस्यादेशः परनिमित्तकः । यदि चास्य ङीलुग्रूपस्य स्वरादेशस्य स्थानिवद्भावकरणेन ङीः सद्भूतः क्रियते, तदा
यां परभूतायाम् “अस्य यां लुक्' ॥२।४।८६।। इत्यनेन बिम्बाकारस्य लुक् प्रसज्यते; तथा च बिम्बमिति रूपं न सिध्येत् । अतो अल्लुग्रूपे ङीविधौ कर्तव्ये ङीलुग्रूपस्य स्वरादेशस्य स्थानिवद्भावो न क्रियते इति । यदि चायं न्यायो न स्यात्तदा सर्वमिदं व्यर्थमेव स्यात्तथाहि । “अस्य याम्'- ॥२।४।८६॥ इत्यनेनाल्लुको वारणार्थं तावद् डी-लुकः स्थानिवद्भावनिषेधः क्रियते । स चाकार एव प्रथमं नास्ति तस्य प्रागपि ङीसद्भावसमये लुप्तत्वात् । ततः कस्य लुकं निषेद्धमेतावान् यत्नः क्रियते इति परमेतन्यायसद्भावाद् ङयो लुक्करणे तद्धेतुकस्य अल्लुकोऽप्यभावभवनेन योऽकारः प्रत्यावृत्तोऽस्ति तस्य प्रथमवारमिव द्वितीयवारमपि “अस्य ड्याम्-'" ॥२।४।८६॥ इति लुग्माभूदित्याशङ्कया ङीलुकः स्थानि
= २८