________________
न्यायसङ्ग्रहस्य
अनिश्चितता त्वस्य न निश्चीयते ॥ २६ ॥
[ न्या. सू. १/२७, २८.
नक्तं तत्सदृशे ॥ २७ ॥
नञा उक्तं पदं नञक्तपदसदृशे विशेष्यभूते पदे विश्राम्यति । कोऽर्थः । यत्पदं नञा योगान्निषिध्यते तत्सदृशमेवापरं पदं ग्राह्यं नत्वसदृशम् । यथा “य्यक्ये " ॥ १।२।२५ ॥ इत्यत्र क्यप्रत्ययेन नञक्तपदेन क्यसदृशस्य यकारादेरपि प्रत्ययत्वनियमनाद् गां नावं वेच्छति क्यनि गव्यति, नाव्यतीत्यादौ अवावौ स्यातां; परं गोयानं, नौयानमित्यादौ न स्याताम् ।
विभासकं प्राग्वत् ।
अस्य चानिर्णयत्वात्पर्युदासे प्रवृत्तिरस्ति न प्रसज्ये । उक्तं च । ' पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत्' इति । ततश्च " अनतो लुप्" ॥१॥४॥५९॥ इत्यत्र प्रसज्यनञ्सद्भावादकारस्य नञक्तत्वेऽप्यकारसदृशस्य स्वरस्यैव केवलस्य ग्रहणं न स्यात्, किन्त्वकारवर्जसर्वस्वराणां सर्वव्यञ्जनानां च ग्रहणं स्यात्तेन पय इत्यादौ व्यञ्जनान्तादपि स्यमोर्लुप् सिद्धा । एवं च निषेधमात्रपर्यवसायिन: प्रसज्यनञः प्रतिकूलोऽयं न्याय: ॥ २७ ॥ उक्तार्थानामप्रयोगः ॥ २८ ॥
उक्तः प्रत्यायितोऽन्यैः प्रत्ययाद्यैरर्थोऽभिधेयं येषां तेषां द्वितीयादिविभक्त्यादीनां प्रयोगो न कार्यः । यथा क्रियते कटोऽनेनेत्यादौ कर्मादिषूत्पन्नैरात्मनेपदाद्यैः कर्मादिशक्तयः प्रत्यायिता इति तत्प्रत्यायनाय कटादेर्द्वितीयादि न स्यात्ततः परिशिष्टेऽर्थमात्रे प्रथमा । अक्ष्णा काण:, पदा खञ्ज इत्यादौकाणत्वखञ्जत्वयोरक्षिपद्भ्यामन्यत्रासम्भवात् काणखञ्जशब्दाभ्यामुक्तार्थयोरप्यक्षिपादशब्दयोर्लोकरूढ्या प्रयोगोऽस्ति लोकरूढेः कथमप्यनिवार्य्यत्वात्; क्रियते कटोऽनेनेत्यादौ तु तथा निषेधार्थोऽयं न्याय: ।
उद्भासकं त्वस्य “रषृवर्णात् - " ॥२॥३।६३॥ इति सूत्रे एकशब्दस्य नियमार्थत्वम् । तथाहि । इह तावदेकशब्दस्य नियमार्थत्वमिष्टम् । तच्च विध्यर्थे बाधकमुद्भाव्यैव कर्तुं शक्यं, नत्वनुद्भाव्य; विधिनियमयोः सम्भवतोर्विधिरेव ज्यायान् इति न्यायात् । तद्बाधकं चैवमेवोद्भवति । तथाहि । यद्यत्रैकशब्दस्यैकत्वमात्ररूपो विध्यर्थः स्यात्तदा " ह्रस्वोऽपदे वा " ॥ १।२।२२ ॥ इत्यत्रवदत्राप्येकवचनेनैव एकत्वं प्रत्यायितमित्युक्तार्थत्वेन एतन्न्यायात्तस्य प्रयोगो न युक्त इत्यतो नात्र विध्यर्थः सम्भवतीति । एवं चैतन्यायोत्थविध्यर्थासम्भवबलेनैवोद्भाव्यमाना एकशब्दस्य नियमार्थता एतन्यायज्ञापिका स्यादेव । “रषृवर्णात्-" ॥२|३|६३ ॥ इति सूत्रे एकशब्दज्ञापितो नियमश्चायम्; एकमेव यन्नित्यं पदं तत्रैव णत्वं स्याद्, यथा नृणामित्यादौ । यत्तु एकमनेकं च तत्र न स्याद्यथा
I
૨૮