________________
- १/२६]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । प्रभासकं त्वस्य पुनः सूत्रारम्भ एव । तथाहि । यद्ययं न्यायो नाभविष्यत्तदा "इन्हन्"- ॥१।४।८७॥ इत्येतद्विधिसूत्रमेवाभविष्यत्तथा च नारब्धव्यम्; एतत्साध्यस्य "नि दीर्घः" ॥१।४।८५॥ इत्यनेनैव सिद्धेः । तथापि यदारब्धं तदेतन्यायान्नियमसूत्रमिदं भावीति बुद्ध्यैव ।
__ अस्य चानिश्चयत्वात् पूजार्ह इत्यादौ "लिहादिभ्यः" ॥५॥१५०॥ इत्येवाचि सिद्धेऽपि, “अर्होऽच्" ॥५।१।९१॥ इत्यादि षट्सूत्र्यारम्भो लिहादिप्रपञ्चार्थ एव न तु नियमार्थः ॥ २५ ॥
धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् ॥ २६ ॥
यत्कार्यं धातोः स्वरूपमुच्चार्य प्रत्यये परे सत्युक्तं, तत्तत्प्रत्यये इति कोऽर्थः। सर्वं वाक्यं सावधारणमिति न्यायात्तस्य धातोरेव सम्बन्धिनि विवक्षितप्रत्यये पुरःस्थे सति स्यान्न तु नाम्नोऽपि सम्बन्धिनि । यस्य धातोः प्रत्यये परे सति यत्कार्यमुक्तं तत्तस्य क्विबन्तत्वजनामत्वावस्थायामपि तत्सम्बन्धिनि प्रत्यये परे सति प्राप्नोति तदानीमपि तस्य क्विबन्ता धातुत्वं नोज्झन्तीति न्यायेन धातुत्वस्यापि सद्भावादित्यतो यदा क्विबन्तादुक्तधातोरुक्तप्रत्ययः समानीयते, तदानीं तस्य धातोस्तत्प्रत्ययनिमित्तककार्यनिषेधार्थोऽयं न्यायः । ... यथा दुष्यन्तं प्रयुक्ते दूषयति इत्यत्रवद्दोषणं दुट्, विप, तां करोति "णिज् बहुलं-" ॥३।४।४२॥ इति णिजि दुषयति; अत्र "ऊद् दुषो णौ" ॥४२॥४०॥ इत्यनेन उत ऊन; यतोऽत्र क्विबन्तस्य दुषः किबन्ता धातुत्वमिति न्यायेन धातुत्वनामत्वोभयसद्भावात् तदने विहितो णिज् यथा धातुसमबन्ध्युच्यते तथा नामसम्बन्ध्यपि । किञ्च स्रष्टा द्रष्टेत्यत्रवद्रज्जुसृड्भ्यां दृग्भ्यामित्यत्र "अः सृजिदृशोऽकिति" ॥४।४।१११॥ इत्यकारो न; भ्यामोकिद्धडादिप्रत्ययस्य प्राग्वद्धातोरिव नाम्नोऽपि सम्बन्धित्वसद्भावात् । यद्यपि चात्र क्विपः कित्प्रत्ययस्य स्थानिवद्भावकरणे अकारप्राप्तेरेवाभावानास्त्येतन्यायापेक्षा । तथापि स्थानिवद्भावस्यानित्यत्वादिना केनापि हेतुना आचार्यैरत्रैतन्यायप्रवृत्तिर्दर्शितेत्यतोऽत्रापि तथैवोचे ।
. प्रतिभासकं त्वस्य विशेषणानुक्तिरेव । तथाहि । दूषयति, स्रष्टा इत्यादौ धातुसम्बन्धिनि प्रत्यये धातोरुत ऊत्वमकारागमश्च दृश्यते; दुषयति, रज्जुसृड्भ्यामित्यादौ नामसम्बन्धिनि तु न दृश्यते, तथापि यत् "ऊहुषो णौ" ॥४२॥४०॥ "अः सृजि-" ॥४।४।१११॥ इति सूत्रयोः प्रत्ययस्य विशेषणं किमपि नोक्तं, तदेतन्यायाशयैव । एतदनुसारेणाग्रेऽपि विशेषणानुक्तिस्तस्या ज्ञापकता च भाव्ये ।
२७