________________
न्यायसङ्ग्रहस्य -
[न्या. सू. १/२४, २५ - पारिभाषिकस्वाङ्गत्वाभावान्न ङीः ।
प्रकाशकं चास्य, "आडो यमहनः स्वेऽङ्गे च" ॥३।३।८६॥ इत्यत्र स्वाङ्गशब्दयोर्व्यस्ताभिधानम् । इदं ह्यायच्छति पादौ मैत्रस्येत्यादावविकारोऽद्रवमित्यादिस्वाङ्गलक्षणे सत्यपि पदयोः स्वकीयावयवत्वाभावादात्मनेपदं मा भूदित्येवमर्थम् । स्वाङ्ग इति समस्ताभिधाने त्वत्रापि स्वाङ्गलक्षणसद्भावादेतन्न्यायबलादात्मनेपदमभविष्यदेव । अत एतन्न्यायाशङ्कया व्यस्ताङ्गाभिधानं कृतम् ।। अस्य असार्वत्रिकता तूत्तरन्याये दर्शयिष्यते ॥ २३ ॥
क्वचिदुभयगतिः ॥ २४ ॥ उभयस्य गतिविज्ञानं ग्रहणमिति यावत्ततश्च क्वचित्कृत्रिममकृत्रिमं च ग्राह्यमित्यर्थः । पूर्वापवादोऽयं न्यायस्तेन "नाडीतन्त्रीभ्यां स्वाङ्गे" ॥७।३।१८०॥ इत्यनेन बहुनाडिः कायो, बहुतन्त्री ग्रीवेत्यत्र कृत्रिमस्वाङ्गवृत्त्योर्नाडीतन्त्रीशब्दयोर्यथा कच् निषिध्यते तथा अकृत्रिमस्वाङ्गवृत्त्योरपि । यथा बहुनाडिः स्तम्बो । बहुतन्त्री वीणा । अत्र हि नाडीतन्त्र्योरप्राणिस्थत्वान्न कृत्रिमस्वाङ्गत्वम् । ननु स्तम्बस्यैकेन्द्रियप्राणित्वान्नाड्याः कथमप्राणिस्थत्वम् । उच्यते । “प्राण्यौषधिवृक्षेम्योऽवयवे च" ॥६॥२॥३१॥ इति सूत्रे प्राणिग्रहणेनैव चेतनावत्त्वेन वृक्षौषधिग्रहणे सिद्धेऽपि पृथक् तद्ग्रहणेनेदं ज्ञापितम्, यदुतेह व्याकरणे प्राणिग्रहणेन तसा एव गृह्यन्ते न तु स्थावरा इति ।
विकासकं त्वस्य तथाप्रयोगदर्शनमेव । तथाहि । कृत्रिमाकृत्रिमयोरिति न्याये सत्यपि यदुभयथा व चित्प्रयोगा दृश्यन्ते तज्ज्ञायते कचिदुभय० इत्यपि न्यायोऽस्तीति । अग्रेऽपि यत्र क्वापि तथाप्रयोगदर्शनस्य ज्ञापकत्वं वक्ष्यते तत्रैवमेव भावना कार्या ।
कादाचित्कश्चायं न्यायः, प्राक्तनश्च; कृत्रिमाकृत्रिमयोर्मध्येऽकृत्रिमस्यैव केवलस्य क्वापि क्वापि ग्रहणदर्शनात् । तथाहि "शिरोऽधसः पदे समासैक्ये" ॥२॥३४॥ इत्यत्र पारिभाषिकं विभक्त्यन्तं पदं व्युदस्याकृत्रिमं पदं पदशब्दरूपमेव गृहीतम् । यथा शिरस्पदम्, अधस्पदम् अत्र "शिरोऽधस:-'' ॥२।३।४॥ इत्यनेन रस्य सः ॥ २४ ॥ .
सिद्धे सत्यारम्भो नियमार्थः ॥ २५ ॥ नैरर्थक्याशङ्कानिरासार्थोऽयं न्यायः । यथा दण्डीत्यादौ "नि दीर्घः'' ॥१।४८५॥ इति दीर्घ सिद्धेऽपि "इन्हन्पूषा" - ॥१।४।८७॥ इति सूत्रारम्भो यः स नियमार्थ एव जातः । नियमश्चायम्, इनादीनां शिस्योरेव दी? नान्यघुटीति; तेन दण्डिनावित्यादौ "नि दीर्घः" ॥१।४।८५॥ इत्यनेनापि दी? न ।