________________
१/२३]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः ।
इत्यनेनापि सिध्येत्परं वार्णात्प्राकृतमिति न्यायात्परत्वाच्च " इवर्णादे:-" ॥१॥२॥२१॥ वत्वं 'बाधित्वा " धातोरिवर्ण - " ॥ २।१।५० ॥ इत्युवेव प्रवर्त्तते; तद्बाधनार्थं " स्यादौ वः " ॥२॥१॥५७॥ इति सूत्रं कृतम् । यदि चायं न्याय इद्धः स्यात्तदा वस्वौ इत्यादिषु गौणधातुत्वादेव " धातोरिवर्ण - " ॥२॥१॥५०॥ इत्युवादेशो न प्राप्नोतीति कुतस्तद्बाधनार्थं "स्यादौ वः ॥ २।१।५७ ॥ इति सूत्रं कुर्यात् । यत्तु कृतं तज्ज्ञापयति एतन्यायस्यानिद्धत्वाद् गौणधातोरप्युवादेशः प्राप्नोत्येवेति ।
"
प्रधानानुयायिनो व्यवहारा इत्यपि न्यायोऽस्ति । यथा मुनीनित्यादौ इकारस्य शसोऽकारस्य चेत्युभयोः स्थानित्वेऽपि षष्ठया निर्दिष्टत्वेन मुख्यस्थानिन इकारस्यैवासन्न ईदीर्घः स्यान्नत्वकारस्यासन्न आः । शसोऽता सह इति सहार्थनिर्देशेन शसोऽकारस्य गौणत्वादिति । परमिदं प्रकृतन्यायेनापि सिध्यतीति सोऽत्रैवान्तर्भूतः । किंच -
प्रधानानुयायि अप्रधानमित्यपि न्यायोऽस्ति । यथा नीलोत्पलमित्यत्रो भयोरपि पदयोर्व्यभिचारित्वेन मिथोऽन्यव्यवच्छेदनिष्ठत्वादविशेषेण विशेषणविशेष्यभावसम्भवाद्यदोत्पलस्य विशेषणत्वं नीलस्य तु विशेष्यत्वं विवक्ष्यते, तदा "विशेषणं विशेष्येणैकार्थं कर्मधारयश्च" ॥३|१|९६ ॥ इति सूत्रेण कर्म्मधारयसमासे उत्पलनीलमित्यपि प्राप्नोति, परं न स्यात् । किन्तु “ द्रव्याश्रया गुणा" इति नीत्या गुणशब्दत्वादप्रधानं नीलशब्द एतन्यायेन पश्चादेव तिष्ठति । ‘“गुणाश्रयो द्रव्यमि " ति नीत्या द्रव्यशब्दत्वात्प्रधानं तूत्पलशब्दः पुरोभूयावतिष्ठते इति । परमेषोऽपि न्यायो मुख्ये कार्यसम्प्रत्यय इति वदता प्रकृतन्यायेन स्वकुक्षावेव निक्षिप्तः; पुरोभूयावस्थानस्यापि कार्यविशेषमात्ररूपत्वात् ॥ २२ ॥
कृत्रिमाकृत्रिमयोः कृत्रिमे ॥ २३ ॥
कार्यसम्प्रत्यय इति सम्बन्धः । कृत्रिमं परिभाषानिष्पन्नं; तच्च गौणमौपाधिकत्वात् । ततोऽन्यदकृत्रिमं लोकप्रसिद्धं; तच्च मुख्यमनौपाधिकत्वात् । तयोर्मध्ये कृत्रि कार्यं कार्यम् । पूर्वेणाकृत्रिमस्य ग्रहणे प्राप्ते तदपवादो ऽयं न्याय: । यथा "असहनञ्विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः " || २|४|३८ ॥ इत्यत्र अविकारोऽद्रवं मूर्त्तं प्राणिस्थं स्वाङ्गमुच्यते ।
-
च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥ १ ॥
इति लक्षितमेव स्वाङ्गं गृह्यते न तु स्वमङ्गमवयव इति यौगिकमकृत्रिमम् । तेन दीर्घमुखा शालेत्यत्र मुखस्य शालाऽपेक्षया लोकप्रसिद्धस्वाङ्गत्वे सत्यप्यप्राणिस्थत्वेन
*
पूर्वस्मिन् पुस्तकेऽत्र " योऽशिति" || ४ | ३ |८० ॥ इति सूत्रपाठो मुद्रितोऽस्ति । तस्यासङ्गतत्त्वादत्र परिवर्तितस्तत्पाठ : । यथा च सोऽसङ्गस्तदेतत्सूत्रपरामर्शविवेचनादवसेयम् ।
૨૫