________________
न्यायसङ्ग्रहस्य
गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः ॥ २२ ॥
[ न्या. सू. १/२२
11
मुख्यस्य बलिष्ठताख्यापनार्थोऽयं न्याय: । यथा 'चरणस्य स्थेणोऽद्यतन्यमनुवादे” ॥३।१।१३८॥ इति सूत्रे स्थेणोर्मुख्यकर्तुःश्चरणस्येति व्याख्यातम् । तथाहि । " चरणस्य- ।। ३ । १ । १३८ ॥ इति सूत्रस्यार्थादि तावदेवम् । तत्तद्वेदशाखाऽध्ययनहेतुकतत्तद्व्यपदेशभाजो द्विजन्मानश्चरणाः कठादयः । प्रमाणान्तरप्रतिपन्नस्यार्थस्य शब्देन संकीर्त्तनमनुवादः । ततश्चाद्यतन्यां परभूतायां यौ स्थेणौ धातू तयोः कर्तृत्वेन सम्बन्धिनो ये चरणास्तेषां सजातीयैरेव पदैरारब्धो यो द्वन्द्वः सोऽनुवादविषये समाहारः स्यात् । यथा प्रत्यष्ठात्कठकालापम्, उदगात्कठकौथुमम् । एषां प्रतिष्ठोदयावनुवदन् कश्चिदिदमाह । अत्र कठाश्च कालपाश्चेति समासे "चरणस्य- ' ॥३।१।१३८॥ इति सूत्रेण समाहारोऽभूत्; करणादित्वेन सम्बन्धि समाहारो न स्यात् । यथा प्रत्यष्ठात् कठकालापाम्यां कश्चिदित्यादि । एवं च स्थेणोः करणादित्वेनापि सम्बन्धिता चरणानां संभवति; सम्बन्धहेतूनां कारकाणां षट्सङ्ख्यत्वात् । तथापि 'चरणस्य स्थेणः - " ||३ | १ | १३८ ॥ इति सूत्रवृत्तौ यत् स्थणोः कर्तृत्वेन सम्बन्धिनो ये चरणा इति व्याख्यातं तत्कर्तुरेव स्वातन्त्र्यात् सर्वकारकेषु मुख्यत्वेनैतन्या - यात्कर्तुरेव व्याख्याऽत्र प्राप्नोतीति बुद्धयैव ।
"
अपि च । कर्तुत्वेन सम्बन्धे सत्यपि कर्त्ता गौणो मुख्यश्च सम्भवति; तत्र यदि मुख्यत्वभाजा कर्त्रा सह सम्बन्धः स्यात्तदैव समाहारः स्यात्, गौणत्वभाजा तु कर्त्रा सह सम्बन्धे सत्यपि न स्याद् गौणमुख्ययोः० इति न्यायात् । तेन यदा भावे प्रयोगस्तदा समाहारो न स्यात् । यथा प्रत्यष्ठायि कठकालापाभ्याम् । अत्र हि चरणस्य कर्तृत्वेन सम्बन्धे सत्यपि भावस्यैव प्राधान्यं न तु कर्तुरिति ।
अस्य चाविष्करणं " चरणस्य स्थेण:- " ||३ | १ | १३८ ॥ इति सामान्येनैवोक्तिः । तथाहि । अत्र तावत् स्थेणोर्मुख्यकर्तुःश्चरणस्येतीष्टम्; तथा च तथैवोच्येत; यत्तु तथा नोक्तं, तत्सामान्योक्तेऽप्येतन्न्यायादेव चरणानां कर्तृत्वं कर्तृत्वेऽपि मुख्यत्वं च लप्स्यते इत्याशयैव ।
अस्य चानित्वाद् " धातोरिवर्णोवर्णस्य" ॥२॥१॥५०॥ इत्यनेन शिश्रियः, लुलुवुरित्यादौ मुख्यधातूनामिव नियौ, लुवौ इत्यादौ विबन्तत्वेन गौणानामपि धातूनामिसिद्धौ । अनिताबोधकं तु " स्यादौ वः " || २|१| ५७ ॥ इति सूत्रम् । तथाहि । वसु इच्छत: क्यनि वसूयतः, ततः क्विपि " अतः " || ४ | ३ |८२ ॥ इत्यल्लुकि "य्वोः प्वय्व्यञ्जने लुक्” ॥४।४।१२१ ॥ * इति यलुकि वस्वौ, एवं वस्व इत्यादौ वत्वसिद्ध्यर्थं तावत् “स्यादौ वः''॥२॥१॥५७॥ इति सूत्रं कृतम् । तच्च वत्वं "इवर्णादेरस्वे स्वरे - " ॥१॥२॥२१॥
૨૪
-