________________
- १/२१]
न्यायार्थमञ्जूषानाम्नी बृहद्वृत्तिः । द्वित्वे क्रियमाणे "स्वरस्य परे प्राग्विधौ" ॥७।४।११०॥ इत्यनेन यत्वादेः स्थानिवद्भावो विघ्नीभवन् सन् "न सन्धि-" ॥७।४।१११॥ इति सूत्रे सन्धिग्रहणेन निषिद्धः, द्वित्वस्य सन्धिविधित्वात् । द्वितीयतृतीयपादयोर्विधी हि क्रमात्स्वरव्यञ्जनसन्धी उच्यते । एवं स्थिते पुनः सूरिणाऽऽशङ्कि; धस्य द्वित्वमद्यापि दुर्घटम्; यतः "स्वरस्य परे प्राग्विधौ" ।।७।४।११०॥ इत्यनेन यत्वादेर्यः स्थानिवद्भावः प्राप्तः स एव "न सन्धि-"॥७।४।१११॥ इत्यपवादसूत्रेण निषेद्धं शक्यते । परं असिद्धं बहिरङ्गमिति न्यायेन यत्वादेरसिद्धत्वद्वारेण यः स्थानिवद्भावः प्राप्नोति स दुर्निवार इत्यतोऽस्य न्यायस्य बाधनार्थं "न सन्धि-" ॥७।४।१११॥ इति सूत्रे सन्धितः पृथग् द्विग्रहणं कृतं विलोक्यते । द्वित्वविधावेतन्यायप्राप्तासिद्धत्वद्वारेणापि यत्वादेः स्थानिवद्भावो माभूदित्येवमर्थम्, इति मत्वा सूरिणा "न सन्धि - ॥७।४।१११॥ इति सूत्रे सन्धितः पृथग्द्विग्रहणं कृतम् । एवं च बाधकस्य द्विग्रहणस्य बाध्याविनाभावित्वाद्बाध्यरूपैतन्न्यायाविर्भावकत्वं सुघटमेव । परिप्लवश्चायमुत्तरेण प्लाव्यमानत्वात् ॥ २० ॥
न स्वरानन्तर्ये ॥ २१ ॥ स्वरयोरानन्तर्ये सति यदन्तरङ्गं कार्यं क्रियते तस्मिन् कर्तव्ये बहिरङ्गमसिद्धं न स्यात् । पूर्वेण प्राप्तस्यातिप्रसङ्गस्य निषेधार्थोऽयं न्यायः । यथा इयेष; बभूवुषा । अत्र बहिर्व्यवस्थितत्वाद्बहिरङ्गोऽपि इष्धातोर्गुणः कसोरुषादेशश्च पूर्वव्यवस्थितत्वादन्तरङ्गे यथाक्रम "पूर्वस्यास्वे स्वरे य्वोरियुव" ॥४१॥३७॥ इतीयादेशे "धातोरिवर्ण-" ॥२।१५०॥ इत्युवादेशे च कर्तव्ये असिद्धो नाभूत्, स्वरयोरानन्तर्यसद्भावात् । तथाचेयुवादेशौ सिद्धौ । . . सम्भावकं चास्य "वृत्त्यन्तोऽसषे" ॥१।१।२५॥ इति निर्देशः । अत्र हि वृत्त्यन्तशब्दाग्रस्थस्य से रोः "अतोऽतिरोरुः" ॥१३॥२०॥ इत्यनेन कृतस्य उत्वस्य पदान्तरस्थाकारसापेक्षत्वेन बहिरङ्गस्य "अवर्णस्येवर्णादिनैदोदरल्" ॥१॥२६॥ इत्यनेन प्राक्स्थिताकारेण सह ओत्वे एकपदापेक्षत्वेनान्तरङ्गे कर्त्तव्ये पूर्वन्यायेन यद्यसिद्धत्वं स्यात्तदा ओत्वस्याभवने "वृत्त्यन्तोऽसषे" ॥१।१।२५॥ इति निर्देशः सम्भवत्येव न । यत्त्वेवं निर्दिष्टं तज्ज्ञायते, एतन्यायेन प्राग्न्यायबाधभवनादुत्वस्यासिद्धत्वं न जायत इति ।
. पारिप्लवता त्वस्य न सम्भाव्यते । प्राक्तनन्यायश्च "स्थानीव-" ॥७।४।१०९॥ इति "स्वरस्य" ॥७।४।११०॥ इति परिभाषयोः सजातीयोऽयं तु "न सन्धि-" ॥७।४।१११।। इति परिभाषायाः ॥ २१ ॥
२७